________________
[है• २.१.२०.] द्वितीयः सर्गः।
१४१ युष्मभ्यमस्मभ्यमसौहितस्त्वन्मयुष्मदस्मत्प्रवरस्तथेशः । युष्माकमस्माकमिति ब्रुवाणा अमी नृपास्त्वापधुनोपयान्ति॥२१॥
२१. अमी प्रत्यक्षा नृपा अधुना सेवार्थ त्वामुपयान्ति। किंभूताः सन्तः । ब्रुवाणा: । किमित्याह । युष्माकमस्माकं चेशः स्वाम्यसौ मूलराजो युऽमभ्यमस्मभ्यं च हितोनुकूलः । तथा त्वत् त्वत्तो मद् मत्तो युष्मद् युष्मत्तस्तथास्मद् अस्मत्तश्च सकाशात्प्रवरः शौर्यादिगुणैरुत्कृष्टो वर्तत इति ।।
युष्मभ्यम् अस्मभ्यम् । इत्यत्र "अभ्यं भ्यसः" [१८] इत्यभ्यम् ॥ स्वत् । मत् । युष्मत् । अस्मत् । इत्यत्र “इसेश्चात्" [१९] इत्यत् ।।
युष्माकम् । अस्माकम् । इत्यत्र "आम आकम्" [२०] इत्याकम् ॥ अयं स वो नोवति दत्त ईष्टे तथैव वां नौ हित ईट् च ते मे । मिथो जनैरित्युदयनुतस्त्वा पुनातु सूर्यस्त्वमिव प्रभो मा ॥२२॥ ___२२. हे प्रभो स्वामिन् यथा त्वमुदयञ् श्रिया प्रवर्धमान: सन् वर्णाश्रमगुरुत्वेन दर्शनस्तवनादिना पापमलक्षालकत्वान्मा माम् । जातावेकवचनम् । बन्दिजातिं पुनासि । तथा सूर्य उदयन संस्त्वा त्वां पुनातु । किंभूतः सूर्यस्त्वं च । जनैमिथो नुतः स्तुतः । कथमित्याह । स सर्वत्र प्रसिद्धोयं प्रत्यक्षः सूर्यो राजा च वो युष्मानोस्मांश्चावति परकृतविनोपद्रवादिभ्यो देवतात्वादधिपतित्वाञ्च रक्षति । तथा वो युष्मभ्यं नोस्मभ्यं च दत्ते मनोवाञ्छितं ददाति । तथा वो युष्माकं नोस्माकं चेष्टे चेशो भवति । "स्मृत्यर्थ" [२.२.११] इत्यादिना षष्ठी। यथा वो नोवति दत्त ईष्टे च तथैव वां युवा नावावां चावति युवाभ्यामावाभ्यां च दत्ते युवयोरावयोश्चेष्टे च । तथा ते तुभ्यं मे मां च हितोनुकूलः । तथा ते तव मे ममेट् च स्वामी चेति ॥
१५ मिऋणवे. २ एफ मेट् स्वा',