________________
[है० २.१.७.] द्वितीयः सर्गः । तयोः स्वीदृशोः प्रबोधे विकासे सति । युष्माकं हासैनि:श्रीकत्वादुत्पलान्यतानि स्त्रीदग्भ्यां जितानीति स्मितैः किम् । न किंचित् । अथ चै हासैर्विकासै: किम् । यतो जिता यूयं यकाभ्यां तयोः । स्त्रीहरभ्यां यूयमपि जितानीत्यर्थः । एतदुक्तं स्यात् । येधात्मनापि पराभूताः स्युस्तैरन्येषां पराभूतानां किं हसनीयमिति । प्रभाते हि कमलानि विकसन्त्युत्पलानि च संकुचन्ति । स्त्रीशर्धोतिविकसन्त्यत इयमुक्तिः ।। त्वया मदीयोथ मया त्वदीयो राजन्मतापोनुकृतस्त्वयीति । तर्काकुलो भानुरुदेति मन्दमित्याशयः संप्रति मद्विधानाम् ॥१७॥
१७. प्रभाते हि रविर्मन्दं मन्दमूर्ध्वमयते तत इयमुक्तिः । संप्रति प्रातर्मया विधा सादृश्यं येषां तेषां मद्विधानां बन्धादिजनानामित्येवंविध आशयश्चित्ताभिप्रायः । इदं वयमुत्प्रेक्षामह इत्यर्थः । यथा हे राजन् मूलगज त्वया मदीय: प्रतापस्तेजोनुकृतोनुहृतोथाथवा मया त्वदीयः प्रतापोनुकृतो द्वयोरप्यावयोस्तुल्यप्रतापित्वादित्येवंप्रकारेण त्वयि विषये योसौ तर्कः संशयपूर्व मनसा भणनं तेनाकुलो व्यामूढः रान् भानुरादित्यो मन्दमनुत्सुकं यथा स्यादेवमुदेति । तर्काकुलो ह्यन्यचित्तत्वात्प्रस्तुतं कार्य मन्दमेव करोति ॥
योध्यम्मदासीत्वदयन्नधित्वद्यो मापयन्कोत्र तवानुतापः। वदाम्यहं निश्चिनु तत्त्वमेवं मिथःसखीनामधुनेति वाचः॥१८॥
१८. अधुना प्रभाते मिथःसखीनां कथमप्यन्योन्यं प्रतिपन्नसखीत्वानां सपत्नीनां वाचः संबोधिका वाण्यो वर्तन्ते । कथमित्याह । हे सखि य:
नि सं.
१ एफ 'चिदित्यर्थः । हासैविकासैः । य'. २ एफ ग्भ्यां वय. ३ प ४ सी डी श्चापि वि. ५ सी तेत इ. ६ वी न्योन्यप्र.