________________
[है० २.१.५.]
द्वितीयः सर्गः । अनिः । स्वनिः । इत्यत्र “अपोद्धे" [५] इत्यद् ॥ राः। बहुराभिः । इत्यत्र "भा रायो न्यअने" [५] इत्याः ॥ युष्मासु । अस्मासु । इत्यत्र "युष्मदस्मदोः"[६] इत्याः ।। त्वया मयातित्वयि चातिमय्याः किं तत्र यनिस्पृह आवयोः सः । मिथ्याब्रवीद्यावयोर्वशेहं काचिद्वयस्यामिति खण्डिताह ॥ १३ ॥
१३. किल कश्चिच्छठोन्यनायिकासङ्गेन द्वे स्वनायिके वञ्चितवान् । तयोरेका खण्डिता वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ता नायिका वयस्यां भर्तृकृतसमानापमानलक्षणव्यसनापातेन संजातमैत्र्यां सखीम् । द्वितीयां खण्डितां सपत्नीमित्यर्थः । इत्येवं प्रकारेणाह यथा । आः कष्टं हे वयस्ये । अतित्वय्यतिमय्यन्यनायिकासक्तत्वात्त्वां मां चातिक्रान्ते तत्र शठप्रिये विषये त्वया मया च किम् । न किं चिदित्यर्थः । यद्यस्मादावयोस्त्वयि मयि च विषये स शठो निःस्पृहो निरपेक्षः । ननु सोवादीधुवयोर्वशेहं वर्ने तत्कथमिति ब्रूष इत्याह । युवयोवंश आयत्तौ वर्तेहं यदब्रवीत्तन्मिभ्यालीकं प्रत्यक्षेणैवमावयोर्वञ्चनात् ॥
त्वया । मया । अतित्वयि । अतिमयि । युवयोः । आवयोः । इत्यत्र "टाज्योसि यः" [0] इति योन्तादेवः ॥ टाड्योसीति किम् । अहम् ॥ युष्मभ्यमस्मभ्यमयो युषभ्यं तथेष्टयुष्मभ्यमथोप्यसभ्यम् । तथा प्रियास्मभ्यमदः प्रभातं षड्भ्योपि राजन् भवतात्सुखाय १४
१४. हे राजन् । अद एतत्प्रभातं षड्भ्योपि सुखाय भवतात् । केभ्यः षड्भ्य इत्याह । युष्मभ्यमथो तथास्मभ्यं तथा युषभ्यमस
१बी मैच्या स. १ ए सी डी नायका. ३ एफ ये त्व. ४ पफ ये श. ५ वी एफ यतो व.६ एफ ति यान्ता.