________________
१३४
व्याश्रयमहाकाव्ये
[मूलराजः]
षड्भिरन्विता नैष्ठिकश्राद्धा मुक्तय आधं पुरुषं प्रथमजिनमृषभंस्मरन्ति । प्रभाते हि नैष्ठिकजना जाग्रतः स्वस्वदेवतां स्मरन्ति ॥
तिस्रः । चतनः । प्रियतिस्रः । प्रेयश्चतस्रः । इत्यत्र “त्रिचतुर" [1] इत्यादिना तिसृचतस्रादेशौ । स्यादाविति किम् । त्रिमूतौं । प्रेयश्चतुष्क श्रुतिभिः ॥ _तिस्रः । चतस्रः । प्रियतिस्रः । प्रेयश्चतस्रः । इत्यत्र "ऋतो र स्वरेनि" [२] इति रः ॥ अनीति किम् । तिसृणाम् । राजच्चतसृणि ॥ अन्ये तूपसर्जनयोस्तिमचतमृशब्दयोडौं धुटि चानिस्वरादी रत्वविकल्पमिच्छन्ति तन्मते । सतिनि सुतिसरि । उदबच्चतैत्रि चञ्चलतसरि । सतिस्रः सत्तिसरः ॥
जरसं जराम् । सजरसः असजराः । इत्यत्र “जराया जरस् वा" [३] इति वा जरस् ॥ स्नात्वाद्भिरीशैर्बहुराभिरात्तस्वद्भिर्द्विजेभ्यः परिकल्प्यते राः। युष्मासु नन्वल्पमिदं तथापि प्रसीदतास्मास्विति भाषमाणः॥१२॥
१२. शुचिभिर्दानं देयमिति स्मृतेरद्भिर्जलैः स्नात्वा शुचीभूय बहुराभिः प्रभूतधनैरीश्वरैर्द्विजेभ्यो रा द्रव्यं परिकल्प्यते संप्रदीयते । किंभूतैः सद्भिः । उदकदानपूर्व दानं देयमित्यात्ताः पाणौ गृहीता: शोभना आपो यैस्तैः । तथौद्धत्यरहितं प्रियक्सिहितं च दानं विदुषा श्लाघ्यमिति भाषमाणः । किमित्याह । नन्विति संबोधने । यद्यपि युष्मासु बहुदानाहेष्वित्यर्थः । इदं दीयमानं स्वं स्वल्पं तथाप्यस्मासु विषये प्रसीदत वस्तुग्रहणेनानुग्रहं कुरुतेति । प्रभाते हीश्वरैर्दानं दीयते ॥
१ एफ शैबहु.
१ एफ ते नै . २ सी डी ठिकेज'. ३ एफ् सः प्रिय. ४ सीडीयचत'. ५ ५ तस.. ६ सी डी वाक्यहि . ७ सीडी भाष्यमा'. ८ बी °नं च स्व'.