________________
[ है० १.४.८५. ]
द्वितीयः सर्गः ।
१२९
तत्पिता । दण्डोशना । पुरदंशा । अनेहा । सखा । इत्यत्र "ऋदुशन" [८४]
इत्यादिना डा- अन्तादेशः ॥
सज्यधन्वा । दिङ्मुखानि । इत्यत्र “नि दीर्घः" [८५] इति दीर्घः ॥ अथ प्रबुद्धः स महान्नृपाणां श्रेयानयं स्वम इति प्रहषीं । द्विड्डा नृपूषाथ च वन्दिनोपि जगुर्वचांस्युक्तनवार्यमाण ||५||
५. अथ स्वप्नदर्शनानन्तरं स मूलराजः प्रबुद्धः । कीदृशः । द्विड्ढा शत्रूच्छेदकः । अत एवं प्रतापैः सकललोकोच्योतकत्वाच्च नृपूषा नरेषु रवितुल्योत एव च नृपाणां मध्ये महान् गुरुस्तथायं स्वप्नः श्रेयानतिप्रशस्य इति हेतो: प्रहर्षी सन् । अत्र च महान् सर्वलोकेन पूज्यः - यानतिश्लाघ्यो द्विड्डा मन्देहाख्य दैत्योच्छेदकः पूषा प्रबुद्धः । उदित इत्यtयर्थो व्यंयते । अथ प्रबोधानन्तरम् । चो युगपदर्थः । यदैव प्रबुद्धस्तदैव बन्दिनोपि । अपिः पुनरर्थे । मङ्गलपाठकाः पुनरुक्तो वर्णितो नवार्यमा नूतनवर्येषु तानि वचांसि वक्ष्यमाणानि जगुः पेतुः । एतेन राज्ञो रात्रिशेष इदं शुभस्वप्नं जातमिति त्वरितमभीप्सितकार्यसिद्धिः सूच्यते ॥
1
अथ प्रभातवर्णकानि बन्दिवचांस्येव त्रिचत्वारिंशता वृत्तैराह । जगन्त्यपूषाण्यभितः प्रसारण्या लोकहानि प्रसभं तमांसि । हन्त्यर्यमाथाददिरे द्विजेन्द्रैः सरांस्यनु स्वाम्पि तदर्घ आपः॥६॥
६. तमांस्यर्यमा प्रसभं बलाद्धन्ति । कीहंशि । प्रसारीणि । क । अपूषाणि रविरहितानि जगन्त्यभितः सर्वतः । अभित इति सर्वार्थे निपातः । न तसन्तः । उभयार्थे विहितत्वात्तसः । द्वितीया तु " गौणात् " [२. २. ३३]
१ एवस प्र° २ बी त्वान्नृपृ. ३ एफू व्यअते. ४ एफ पिपु.
१७