________________
१२८
व्याश्रयमहाकाव्ये [मूलरामः] सामान्येनोक्त्वाथ विशेषेणोपदेशमाह । विष्णोः सखा यान निहन्तुमीशो न तत्पिता वा पुरदंशऋद्धः । प्रभासविध्वंसपरेषु तेषु दण्डोशना त्वं भव सज्यधन्वा ॥४॥
४. विष्णोः सखार्जुनो यान् निहन्तुं नेशो न क्षमः । विष्णो: सखति साभिप्रायम् । विष्णोर्दैत्यारेरपि यः सखा सोपि तथा। वाशब्दोप्यर्थे । तत्पिताप्यर्जुनजनकोप्युद्धः सैन्यादिसंपद्युक्त: पुरदंशा इन्द्रो यान् न निहन्तुमीशः । एतेनातिबलिष्ठत्वोक्तिः । प्रभासविध्वंसपरेषु प्रभासाख्यतीयविनाशकारिषु तेषु ग्राहरिप्वादिषु दैत्येषु विषये त्वं सज्यधन्वारोपितचापः सन् । दण्डोशना दण्डो निग्रहः स एवान्यायिशिक्षाहेतुत्वाइण्डो दण्डशास्त्रम् । तत्रोशना शुक्रो भव । यथा शुक्रोन्यायिषु दण्डमुपदिष्टवांस्तथा त्वमेतेषु निग्रहं कुर्वित्यर्थः । एतेनार्जुनेन्द्राजय्यानप्येतान्दैत्यान्मत्प्रसादात्त्वं जेष्यसीति शंभुना सूचितम् । पुरदंशकद इत्यत्र "लुति इस्वो वा" [१.२.२] इति इस्वः ॥
ग्शनन् । अन्युशन । इत्यत्र "वोशनस"[२०] इत्यादिनानो लुक् चान्तादेशी वा ॥ पक्षेनुशनः ॥
अत्यनइन् । प्रियचस्वः । इत्यत्र "उत:" [1] इत्यादिना सस्वरो वादेशः। भनझान् । अतिचत्वाः । चत्वारि । इत्यत्र "वाः शेषे" [२] इति वाः । शेष इति किम् । मनइन् । प्रियचत्यः ।। सखायः । इत्यत्र "सस्युः" [८३] इत्यादिना ऐकॉरोन्तादेशः ॥
१ एफ पुरुदं.
---
१वी दिदै'. २ एफ षु वि. ३ बी इतीति. ४. एफ रोब आदें. ५ एफ 'न् प्रि. ६ एफ ल्युरितोशात् इति ऐ. ७बी कारान्ता.