________________
[० १.४.७९. ]
द्वितीयः सर्गः ।
१२७
सुपथीम् । पथा । मथः । सऋभुक्षिकाम् । ऋभुक्षः । इत्यत्र “इन् ङीस्वरे लुक्” [७९] इति-इनो लुक् । सर्गेस्मिन्नुपजातिच्छन्दः ॥ अथ वृत्तद्वयेन शंभुः सामान्येनोपदेशमाह । बुद्ध्योशनन्नत्युशन प्रभाभिर्देवेषु भक्त्यानुशनश्चलुक्य । धुर्यत्यनडून् प्रियचत्वरेभिर्वर्णैरुपायैः श्रुतिभिः पुमर्थः ॥ २ ॥ धुर्योस्यनड्रानिव मेतिचत्वा हरेर्भुजस्त्वं तव के सखायः । चत्वारि पातस्तव दिङ्मुखानि भूयाननेहा स्मर देवकार्यम् ॥ ३॥
२, ३. हे चुलुक्य चुलुकवंशोद्भव बुद्ध्या कृत्वोशनन दैत्यगुरुतुल्य । तथा प्रभाभिः कान्तिभिः कृत्वात्युशन शुक्रमतिक्रान्त । तथा देवेषु विषये भक्त्यान्तरप्रीत्या कृत्वानुशनौदैत्यगुरो देवेषु हितवांछकेत्यर्थः । तथा धूः कार्यप्राग्भारो धैरिव दुर्बहत्वात् धूर्यानमुखं तत्र धुर्यत्यनन्ननाहं वृषैमतिक्रान्त । तथैभिः सर्वजनप्रत्यक्षैरित्यर्थः । वर्णैर्ब्राह्मणक्षत्रियवैश्यशूद्रैरुपायैः सामदानभेददण्डैः श्रुतिभिः ऋग्यजुःसामाथर्वभिः पुमर्थैर्धमार्थकाममोक्षैश्च कृत्वा प्रियाश्चत्वारो यस्य हे प्रियचत्वः प्रियवर्णादिचतुष्टयेत्यर्थः । एतेन जनानुरागादिका सर्वसंपदुक्ता । चत्वारि दिङ्मुस्वानि सकलभूमिमित्यर्थः । पतो रक्षतः सतस्तव भूयाननेहा प्रभूतः कालो भूत् । अथ देवकार्ये स्मर । ननु कियन्मात्रोहं का च मे सहायसंपद्यदेवंविधं कार्य भगवता मय्युपदिश्यत इत्याह । असि त्वं हरेश्वतुर्भुजस्य चतुरो भुजानविक्रान्तोतिचत्वाः पञ्चमो भुजो बाहु: । एतेन नारायणांशत्वेनातिपराक्रमित्वमुक्तम् । अतएव मे ममानवानिव वृषभ इव त्वं धुर्यः सर्वकार्यप्राग्भारवहनक्षमः । अतश्च तब के सखायः का तव सहायापेक्षेत्यर्थः ॥
१ एफ् ॥ ३ ॥ युग्मम् । हे.
१ डी एफ् चुलक्य. २ ए एफ चुलक° ३ डी नो देवगु ४ बी भूरेव.
५ एफू षभम.
६ए तो रक्षकस्य स .
७ एफ् भूतका