SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्ये द्वितीयः सर्गः । प्रथमसर्गे गोविप्ररक्षाविपक्षमथनमुख्यमस्यावदातमग्रे वर्णयिष्यंत इति यत्सूचित्तं तच्छंभूपदेशेन प्रवृत्तमिति पूर्वं तमेवाह । महीऋभुक्षस्य मथोरिदनां नीतेः पथा क्ष्मां सुपथीं विधातुः ॥ रिरक्षिपोर्घा सऋभुक्षिकां च स्वमे कदापीदमुवाच शंभुः ॥ १ ॥ १. कदापि शंभुः सोमनाथोस्य राज्ञः स्वप्न इदं वक्ष्यमाणं दैत्यव - धेन देवानां सुखीकरणरूपं कार्यमुवाच । यतो महीऋभुक्षः परमैश्वर्येण मह्यामिन्द्रतुल्यस्य । तथारय एव स्थूलत्वाद्दधीनि तेषां मथो मन्थानकस्य । शत्रून् मध्नत इत्यर्थः । तथा क्ष्मां पृथ्वीं नीतेः पथा न्यायमार्गेण कृत्वा शोभनोः पन्थानो मार्गा यस्यां "स्त्रियां नृतः” [ २. ४.१ ] इत्यादिना ङीः । सुभ्रवादित्वात्कजभावः । [ ७.३.१८१] तां सुपथीं विधातुः सन्यायान्वितां पृथ्वीं कुर्वत इत्यर्थः । तथा सह ऋभुक्षा शक्रेण वर्तते या पूर्ववद् डयां कजभावे च सऋभुक्षी दैत्यभीतिनिष्प्रतापत्वात् । कुत्सिताल्पाज्ञाता वा सऋभुक्षी कपि "ड्यादीदूतः के” [२. ४.१०३] इति ह्रस्वे सऋभुक्षिका । तां द्यां स्वर्ग रिरक्षिषोश्च पालयितुमिच्छोश्च शंभूपदेश्यं कार्य स्वयमेव चिकीर्षत इत्यर्थः । एवंविधगुणोपेतश्चेदृशोपदेशार्हः स्यात् ॥ १ सी इतः प्रभृति ८ श्लोका न सन्ति. १ एफ् य ह . ५ डी इत्यनेन इ. · २ बी एफ् ना प ३ ए तहा स° ४ बी एफ् निःप्रता. ६ एफू "देशका'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy