________________
१३० ध्याश्रयमहाकाव्ये
[मूलराजः] इत्यादिसूत्रे बहुवचनात् । सर्वजगत्स्वित्यर्थः । तथालोकहानि दर्शनप्रतिघानीति । अथ तथा तस्यार्यम्णोर्घः पूजा तदर्घस्तस्मिन् । निमित्तससमीयम् । सूर्यार्घार्थ शोभना आपो येषु तानि स्वाम्पि सरांस्यनुलक्ष्यीकृत्य या आपस्ता द्विजेन्द्रराददिरेजलौ गृहीताः । एतेन त्वमपि प्रतापेनोदीयमानार्यमश्रीरसि । तस्मात्सर्वजगद्व्यापकान् आ: कष्टं लोकान् प्रतस्तमःप्रकृतीन ग्राहरिप्वादीन दैत्याहि । येर्ने द्विजेन्द्ररय॑स इति राज्ञो ज्ञापितम् । एवं च दैवादनुवद्भिर्बन्दिभिरपि शंभूपदेशोवश्यं कर्तव्यतया राज्ञो ज्ञापितः ।।।
कुर्वन्करैः स्वम्पि सरांस्युदेति तमिस्रपिण्डग्र इहोग्रतेजाः। क्रोष्टेव भीमान्विशति प्रभूतक्रोधनि कुञ्जानि तमिस्रपुञ्जः॥७॥
७. इहास्मिन्प्रभात उग्रतेजा' उष्णांशुरुदेति । कीहक्सन । करैः किरणैः कृत्वा सरांसि स्वम्पि निर्मलजलानि कुर्वन् । तथा करैरेव तमिसपिण्डं तिमिरौघं प्रसते तमिस्रपिण्डनः । अत एव क्रोष्टेव यथा शृगाल: प्रातः स्वभावत एव भीमान् भययुक्तः सन् प्रभूतकोष्ट्रनि बहुशृगालानि कुनानि वनगह्वराणि प्रविशति तथा तमिस्रपुजो रवितेजसो भीमान् कुञानि प्रविशति । एतेन त्वमप्युग्रतेजाः प्रचण्डप्रतापोसि । तस्मात्तामसप्रकृतीन ग्राहरिप्वादिदैत्यान् असमानश्चेत्त्वमुस्थितस्तदा ते भीमन्तः कुन्जेषु प्रवेक्ष्यन्तीति राज्ञो विजयो ज्ञापितः । अत्रं च तमिस्रशब्दद्वयोपादानेपि भित्रवाक्यत्वान पुनरुक्तदोषः ॥
१ एफ रैः स्वांपि. २ ए मिश्रमि'. ३ ए एफ मिश्रपु.
१ एफ सर्व ज° २ डी मित्ते स. ३एफलक्षीकृ. ४ डी न त्वं द्वि. ५ एफ °सि स्वांपि. ६ बी मित्रपि. ७ एफ लः स्व. ८ वी मिश्रपु. ९बी सो भीमानिव भी. १० एफ त्र त.