________________
१२४ द्याश्रयमहाकाव्ये
मूलराजः! पाङ् वीरेषु भवञ्जगन्ति चकृवान् वश्यानि दोष्मानसौ युङ् बुद्ध्या बलयुग् दृढांससुभगोनड्डानिवैकः पुमान् । गोार्गामवतामुनानयमयः पन्या ऋभुक्षाः सुखी गा विमानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृतः ॥ २० ॥ २०१. असौ राजा जगन्त्यूर्ध्वाधोमर्त्यलोकान् वश्यानि स्वायत्तानि चकृवांश्चके । कीदृशः । अनड्वानिव वृषभ इव दृढौ वलिष्ठौ स्थूलौ च यावंसौ स्कन्धौ ताभ्यां सुभगः । तथा शत्रुवधादिस्वकार्यकरणालंकर्मीणत्वात्प्रशस्यौ दोषौ भुजावस्यं स्त: प्रशंसायां मतो दोष्मान् । अतएव वीरेषु शूरेपु मध्ये प्राङ् प्रथमो मुख्यः । एतैर्विशेषणैरुत्साहशक्त्यतिशय उक्तः । तथा बुद्ध्या यथौचित्योपायादिप्रयोगविषयया मत्या युङ् युक्तः । एतेन मन्त्रशक्तिरुता । तथा वलयुक् सैन्येन युक्तः । एतेन प्रभुत्वशक्तिरुक्ता । अत एवैकोसाधारणः पुमान भवन्संपद्यमानः । यथा वश्यानि चकृवांस्तथाह । गौरित्यादि । अमुना राज्ञा गां पृथ्वीमवतान्यायिभ्यो रक्षता सता पन्था मार्गो नयः प्रकृतोस्मिन्नयमयो न्यायप्रंचुरो न्यायप्रधानो वा कृतो न्यायमार्गः प्रवर्तित इत्यर्थः । अत एवामुना गौः पृथ्वी द्यौरिव स्त्रर्गतुल्या कृता । इवो ज्ञेयः । एतेन मर्त्यलोकस्य वश्यत्वमुक्तम् । तथा गा धेनूर्विप्रांश्चावितुं दैत्येभ्यो रक्षितुं विपक्षजलधौ विपक्षशब्देन सामान्यत: शत्रुवाचकेनापि गा विप्रानवितुमिति विशेषोक्तेदैत्या उच्यन्ते । त एव हि गा विप्रांश्च प्रन्ति । त एव दुर्विगाहत्वाजलधिः समुद्रः । तत्र खगः कृपाणो मन्था मन्थानकतुल्यः कृतः । विपक्षा: खड्नेन मथिता इत्यर्थः ।
१ एफ ॥ २०१॥ इति श्रीहेमचन्द्राचार्यविरचिते याश्रयमहाकाव्येणहिलपत्तनश्रीमूलराजयोर्वणनो नाम प्रथमः सर्गः समाप्तः ॥ .
१डी ‘स्य स प्र. २ बी एफ रक्षिता. ३ एफ तोस्ति । नय'. .४ ए सी डी प्रधा'. ५९ श्वेशे'. ६ एफन्ते । अत एव च हि.