________________
१२२
व्याश्रयमहाकाव्ये
[ मूलराज: ]
महः । जगत् । इत्यन्न “अनतो लुप्” [ ५९ ] इति स्यमोर्लुप् । अनत इति
1
किम् । धैर्यम् । सैन्यम् ॥
सजरसमजरः परित्यजद्विजरः सज्जरसं च संगरे । स्वादो क नु वारि तिष्ठसीत्याक्रन्दत्तृषयास्य शात्रवम् ।। १९९ ।।
I
१९९. हे स्वादो मिष्ट वारि जल । क न्विति प्रभे । कस्मिन् स्थाने त्वं तिष्ठसि । आत्मानं दर्शयेत्यर्थः । इत्येवंप्रकारेणास्य राज्ञः शात्रवं शत्रुसमूहस्तृषया हेतुनाकन्दत् व्यलपत् । यतः किंभूतम् । संगरे रणेजरो जरारहितं तरुणं शात्रवं कर्तृ सजरसं जरान्वितं वृद्धं शात्रवं कर्म परित्यजत् । तथा सज्जरसं विद्यमानजरं वृद्धं शात्रवं कर्तृ विजरस्तरुणं शात्रवं कर्म परित्यजत् । अन्योन्याप्रतीक्षया भयातिरेकात्पलायमानमित्यर्थः । पलायमानस्य हि गाढायासेन तृषातिरेकः स्यात् ॥
अजरः। सैज्जरसम् । विजरः । संजरसम् । इत्यत्र “जरसो वा " [६० ] इति वा स्वमोर्लुक् ॥
स्वादो । इत्यत्र "नामिनो लुग्वा " [ ६१ ] इति लुग्वा ॥ पक्षे लुबेव । हे वारि ॥ वैतालीयं छन्दः ॥
सक्थायुः पथि खेत्तृणा रिपुनृपा अक्ष्णासमोकान्तरं दनोस्थश्च न जानते स्म मधुनोम्बूनां च पर्याकुलाः । अश्वीयानि सुबल्गयवल्गिसुमहांस्यत्यूर्य नूर्जि क्षणातेषां दन्तिकुलानि चालमभवन्नस्मिन् रणारम्भिणि ॥ २०० ॥
१ एणाश्रमो एफ् 'क्ष्णाश्रुमो .
•
१ सी डी लुक् ।. २ एन् त्वं. ३ सी डी 'तू विल'. ४ सी डी “त्। स . ५ एफ् सजर. ६ एफ सज्जर.