________________
११४
व्याश्रयमहाकाव्ये
[मूलराजः]
राज्ञां नन्दिप्रतीहारः करोति तथा शंभूक्तयज्ञादिविधिरूपाक्षायाः कारकमित्यर्थः । तथा कौशले यागादिविधिविषये नैपुणे त्वष्टारमिव । यथा त्वष्टा वर्धकिः शिल्पक्रियाकुशलः स्यात्तथा यागादिधर्म्यक्रियायां कुशलमित्यर्थः । एवं चास्य यागादिविषयं क्रियाज्ञानं चोक्तम ॥
पितरः सन्तु संतुष्टा देवाश्च त्वयि यष्टरि ।
चण्डिकामात नन्देति प्रस्तोतारोहुवनिमम् ॥ १८८॥ १८८. प्रस्तोतार ऋत्विग्विशेषा इमं नृपमबवन् । कथमित्याह । चण्डिका चाण्डालदेवीनानी माता, यस्य । यद्वा चण्डिका गौरी प्रति. पालिकात्वान्माता यस्य । तस्य संबोधनं हे चण्डिकामात त्वयि विषये पितरः पूर्वजा देवाश्च संतुष्टाः सन्तु । यतो यष्टरि यागैः पितृदेवानां पूजके । ततश्च नन्देति ॥
वोढारम् । स्वसारम् । नप्तारम् । नेष्टारः । त्वष्टारम् । क्षत्तारम् । होतारैः । पोतारः। प्रशास्तारम् । इत्यत्र “तरवस्' [३८] इत्यादिना-आर् ॥ तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणाबप्तादीनामन्युत्पञ्चानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं म स्यादिति तेषां पृथगुपादानम् । इदमेव च ज्ञापकम् “अर्थवद्हणे नानर्यकस्य" [न्या. सू० १५] ग्रहणं भवतीति । व्युत्पत्तिपो तृप्रहणेनैव सिद्धे नप्तादि. ग्रहणं नियमार्थ नेनान्येषामौणादिकानां न स्यात् ॥ पितरः ॥ के चित्तु प्रस्तोत्रउबेतृउद्गातृप्रतिहप्रतिशास्तृशब्दानामौणादिकानामप्यारं मन्यन्ते । प्रस्तोताः ॥ पितरः । यष्टरि । इत्यत्र “भौं च" [१९] इत्यर् ॥
चण्डिकामात । इत्यत्र "मातुर्मात" [४०] इत्यादिना तात इत्यकारा. मतादेशः॥
१बी सी प्रतिहा. २ एफ ति यथा. ३ सीकिः शल्यक्रि.४ ए चाण्डल'. ५ पफ पालकत्वा'. ६ पफ रि योगैः. ७डीरः प्र. ८सी °रः य.