SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [है. १.४.३७.] प्रथमः सर्गः । ११३ दिधर्मानुष्ठानविधानेनाहादकत्वान्मित्रात्तथोमाभर्तुर्हरस्य नन्तुरेतेन विशेषणत्रयेणातिधार्मिकत्वमुक्तम् । महर्द्धिको धार्मिकश्च न्यायमेव करोति ।। खि । सख्युरस्मात् ॥ ति । पत्युरस्मात् ॥ खी ती । सख्युर्विौजसः । पत्युर्जयश्रियः । इत्यत्र "खितिश्वीतीय उर्" [३६] इति सिड्सोरुर् ॥ लन्युः। इत्यत्र "कादेशोषि" [२.१.६१] इति नस्यासत्वात्तीरूपत्व उर् || नन्तुरस्मात् । भर्तुः । इत्यत्र "ऋतो दुर्" [३७] इति दुर ॥ सुधाखसारं वोढारमतिनप्तारमुष्णगोः। अमुं भूपमशास्तारं लब्ध्वा मुमुदिरे प्रजाः ॥ १८६ ॥ १८६. अमुं भूपप्रशास्तारं राजाधिराजं लब्ध्वा प्रजा मुमुदिरे । यतः सुधायाः स्वसा भगिनी लक्ष्मीद्वयोरप्येकस्मिन्नन्धावुत्पन्नत्वात्तां वोढारमिव वोढारं सम्यक्प्रजापालनादिना विष्णुतुल्यमतएवोष्णगो रवर्नतारं पौत्रमतिक्रान्तम् । सूर्यस्य पुत्रो मनुस्तस्य पुत्र इक्ष्वाकु: सूर्यस्य पौत्रस्तस्मादपि नीतिप्रजापालनादिनाधिकमित्यर्थः । अथवातिनप्तारमतिशयितं पौत्रं लब्ध्वा । प्रकृष्टपौत्रजन्मनि प्रजा लोका मोदन्ते । शंभोः सत्तारमाज्ञायां त्वष्टारमिव कौशले । । अमुं होतारः पोतारो नेष्टारस्तुष्टुवुः क्रतौ ॥ १८७ ॥ १८७. होतारः पोतारो नेष्टारश्च ऋत्विग्विशेषाः ऋतौ यज्ञेमुं नृपं तुष्टुवुः । यतः शंभोईरस्याज्ञायां विषये क्षत्तारं प्रतीहारमिव । यथा शंभो १ एफ तारो पो'. १ एफ येण धा. २ सीडी कश्च. ३ एफ दारं सौ. ४ सीटी "पि प्र. ५ एफ °लोको मोदते ॥.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy