________________
११२
व्याश्रयमहाकाव्ये
मुनेः साधो सत्कर्ता मदं हर्ता कले रिपोः । अद्भुतैरेष विभवैद्यर्विशेषं चकार गोः ॥ १८४ ॥
[ मूलराजः ]
१८४. एष राजाद्भुतैराश्चर्यकारिभिर्विभवैः सदा प्रवर्तमानं महोत्सवादिलक्ष्मीभिः कृत्वा द्योः स्वर्गात्सकाशाद्गोर्भूमेर्विशेषमतिशयं चकार । ननु कलौ प्रतिक्षणं पदार्थानां हीयमानत्वात्कुतोद्भुतविभवसंभव इत्याह । रिपोः शत्रुभूतात्कलेः कलिकालात्सकाशान्मैदं सांप्रतमनीतिरूपा मदाज्ञेव सर्वत्रास्खलितेत्येवं गर्व हर्ता । यतो मुनर्निःसङ्गस्य साधोश्च शिष्टजनस्य सत्कर्ता रक्षादानादिना सन्मानकः । यथो यथासौ मुनीन्साधूंश्व सञ्चक्रे तथा तथा कलिः क्षीणस्ततश्च महर्ज्या भूः स्वर्गादपि विशिष्टाभूदित्यर्थः ॥
कले: हः । मुनेः । रिपोः । साधोः । द्योः । गोः । इत्यत्र “एदोद्भ्याम्” [३५] इत्यादिना ङसिङसो रेफः ॥
पत्युर्जयश्रियः पत्युः सख्युः सख्युर्बिडौजसः ।
एनोलून्युरुमा भर्तुर्नन्तुरस्मादभून्नयः ।। १८५ ।।
१८५. अस्मान्नृपान्नयो न्यायोभूत् । यतः पतिमिच्छति क्यनि दी - धत्वे पतीयति किपि यलोपे च पतीस्तस्याः पत्युः स्वामिनमिच्छन्त्या जयश्रियः पत्युः शत्रूच्छेदेन नायकात्। एतेन सैन्यकोशाद्युत्कृष्टसंपदा महद्धिकत्वमुक्तम् । तथैनोलून्युः पूर्ववत्क्यनि किप्येनोलूंनिं पापच्छेदमिच्छतोत एव सख्युः सखायमिच्छतो बिडौजस इन्द्रस्य सख्युर्यागा
१ एफू नः । म २ एफ् शत्रुभू. ३ एफ् न्मन्दं सां° ४ सी डी सम्मान . ५ सी डी यासौ. ६ एफू ले कि. ७ सी डी पि बोः प्वय् व्यञ्जने लुक् इतिय . ८ एफ् किपि यलोपे लूनिः पा. ९ डी लूनीस्तस्यैनोदन्युः पा.