SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [है० १.४.३४.] प्रथमः सर्गः । १११ प्रहण ३ धारण ४ उह ५ अपोह ६ अर्थविज्ञान ७ तत्वज्ञानानांधीगुणानां धाम स्थानमभूत् । अत एव च पञ्चातिकान्ता ये तेषामतिपश्यां षण्णां संधि १ विग्रह २ यान३ आसन ४ द्वैधीभाव ५ संश्रयाणां ६ गुणानां भूर्यथौचित्यं प्रवर्तनादुत्पत्तिस्थानमभूत् । तथा चतुर्णामृग् १ यजुः २. साम ३ अथर्वणानां ४ छन्दसां वेदानां च भूः पाठेनाध्येत्रध्यापकसाहाय्यकरणादिना चोत्पत्तिस्थानमभूत् । निगृहीतान्तरशत्रुर्हि सुस्थचित्तत्वादुद्धिपात्रं स्यात् । धीमांश्च बुद्धिप्रकर्षेण संध्यादीन् सम्यग् नियुङ्के शास्त्रपाठादि च करोति ॥ चतुर्णाम् । षण्णाम् । इत्यत्र “संख्यानांर्णाम्" [३३] इति नाम् ॥ तत्संबन्धि. विज्ञानादिह न स्यात् । अतिपजाम् ॥ संख्यानामिति किम् । द्विषाम् ॥ बहुवचनं व्याप्त्यर्थम् । तेन भूतपूर्वनान्ताया अपि। अष्टानाम् । एतेनैव नान्तसंख्याया मूलोदाहरणमपि सूचितम् ॥ अतित्रयाणां वर्णानामतित्रीणामुदन्वताम् । प्रभुरेष त्रयाणां च पुमर्थानां प्रवर्तकः ॥ १८३ ॥ १८३. एष राजा त्रयाणां पुमर्थानां प्रवर्तकनीधर्मार्थकामान्यथोचितं प्रयुञ्जानः सन् प्रभुरभूत् । केषाम् । अतित्रयाणां त्रीनतिकान्तानां चतुर्णा वर्णानां ब्राह्मणक्षत्रियवैश्यशूद्राणां न्यायेन पालनात्तथा । त्रयाणां चेत्यत्र चः समुच्चयार्थो भिन्नक्रमे । अतित्रीणां चतुर्णामुदन्वतां च पूर्वपश्चिमदक्षिणोत्तराब्धीनां च चतुर्दिग्विजयात् ॥ त्रयाणाम् । इत्यत्र "प्रेमयः" [३४] इति वाम् त्रेवयादेशश्च ॥ तत्संबन्धि. विज्ञानादिह न स्यात् । अतित्रीणाम् ॥ असत्संबन्धिनः स्यादित्येके । भतित्रयाणाम् ॥ १ एकः ॥ १८३ ॥ स्त्रीन्ध. १ सी डी येषा. २ सी जुः२. ३ एफ 'पूर्वायाना'. ४ एफ ख्यामू'. ---------
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy