SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्ये [मूलराजः] प्राचार्यकं नटोपाध्यायत्वमाचरचक्रे। एनं सौन्दर्यतर्जितरं दृष्ट्वा नारीणामभिलाषातिशयेन मुहुर्मुहुर्भुव उल्लसन्ति । ततो यथा रङ्गाचार्यों नायिका नर्तयति तथायं लीलावतीभ्रुवो नर्तितवानित्यर्थः । कीदृशीनाम् । निरुपमा सर्वोत्तमा श्री: सौन्दर्यादिलक्ष्मीर्यासां तासामत एव नानारूपश्रियामिव । एवं ज्ञायते नैताः खियः किं तीनेकमूर्तयो लक्ष्मीदेव्यस्तासाम् ।। श्रीणां श्रियाम् । भ्रूणां भुवाम् । इत्यत्र "आमो नाम्बा" [३१] इति वा नाम् ॥ असियों इत्येव । स्त्रीणाम् ।। याचकानां महतीनामाशानामेष पूरकः । ग्रामण्यां सोमपां नित्यं तद्वधूनां च पूजकः ॥ १८१ ॥ १८१. याचकानां द्विजादीनां संबन्धिनीनां महतीनां राज्यादिलाभविषयत्वाबृहतीनामाशानां मनोरथानां पूरकोभूत्तथा ग्रामण्यां व्रतनियमादिभिः प्रकृष्टानां सोमपां वल्लीरसपायिनां यायजूकभेदानां सद्वधूनां च सोमपाभार्याणां च नित्यं पूजकोभूत् ॥ याचकानाम् । आशानाम् । महतीनाम् । वधूनाम् । इत्यत्र "स्वापश्च" [३२] इति नाम् ॥ ह्रस्वापश्चेति किम् । सोमपाम् । प्रामण्याम् ॥ धामाष्टानां धीगुणानां षण्णां जेतान्तरद्विषाम् । गुणानामतिपञ्चां भूश्चतुर्णा छन्दसामसौ ॥ १८२ ॥ १८२. असौ राजा षण्णां क्रोध १ मान २ मद ३ स्मरै ४ लोमैं५ संमदाना६मन्तरद्विषां जेताभूत् । अत एवाष्टानां शुश्रूषा १ श्रवण २. १ बी सी एतं सौ. एफ एतं सौ. altered to एवं सौ. २ ए दृशानां. ३. सी डी यामित्ये . ४ एफ हवेत्यादिना नाम्. ५ ए. ज्या ।। ६ सी र ४ सं. ७ एफ भ५हाणामान्त
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy