________________
१०४
व्याश्रयमहाकाव्ये
[मूलराजः] नास्ति सखांस्य तस्मिन्नसखौ सहायानपेक्ष इत्यर्थः । अस्मिन्नरपतौ मूलराजे वर्तमानान् गुणाञ् शौर्यादीन्कः पुमान्वक्तुं वर्णयितुमीश्वरः शक्तः । विष्णुसाम्येनास्य गुणानामानन्त्यान्न कोपीत्यर्थः । बहुप. त्यावित्यत्रपतिशब्दो यद्यपि भुवनानामित्यपेक्षते तथाप्यस्य नित्यसापेक्षत्वेन त. द्धितवृत्तिस्ततो भुवनानां बहुपत्यावित्यस्य नृपविशंपणत्वम् ॥
शुचिना । अमुना । इत्यत्र "ट: पुंसि ना" [२४] इति ना ॥ पतो । विधौ । इत्यत्र "डिन्डौं" [२५] इति डौः॥
सल्यौ । पत्यौ । इत्यत्र “केवल" [२६] इत्यादिना-औः ॥ पताविति कश्चित् ॥ केवलग्रहणं किम् । असखौ । नरपतौ । एषु पूर्वेण डौरेव ।। अन्ये तु बहुप्रत्ययपूर्वादपि पतिशब्दादाकारमेवेच्छन्ति । बहुपत्यौ ।
हरेः सख्या भुवः पत्या सख्ये चास्पृहयालुना । स्थितं रणेमुना पत्ये वृतश्चायं जयश्रिया ॥ १७०॥
१७०. अमुना भुवः पत्या राज्ञा रणे स्थितं न कदाचिदपि नष्टमित्यर्थः । नन्वनेन मित्रसाहाय्यान नष्टं भविष्यतीत्याह । सख्ये मित्रायास्पृहयालुना निरपेक्षेण । नन्वस्य मित्रमेव न भविष्यत्यतो दैवेनैवास्पृहयालुः कृत इत्याह । हरेः सख्या च । सल्ये चेति चोप्यर्थो भिन्नक्रमे । नैकयागकरणेन स्वर्गस्य तर्पकत्वादिन्द्रस्य मित्रेणापि सख्यस्योभयनिष्ठत्वादिन्द्रे मित्रे सत्यपीत्यर्थः । एतेनातिपराक्रमित्वोक्तिः । नन्वेवं तर्हि शत्रुशस्त्रज्वलनेस्य पतङ्गायितं भविष्यति । नेत्याह । अयं राजा जयश्रिया पत्ये भर्ने वृतश्चात्मभीकृतश्चेत्यर्थः ।
१ सी डीखा यस्य. २ सी डी तिडौ. ३ एफ ‘च्छति । ब'. ४ एफ "चित्रष्ट'. ५ पफ मेनेक'. ६५ °नापि ५°