________________
[हे. १.४.२३.] प्रथमः सर्गः ।
१०३ मुनेरपि मुनेरस्य साधोः साधोरपि स्फुटम् । कीर्तये चारवे यत्रो जज्ञे बुद्ध्याः प्रकर्षतः ॥ १६७ ॥ १६७. अस्य राज्ञो बुद्ध्याः प्रकर्षतश्चारवे निष्कलङ्कायै कीर्तये स्फुटं प्रकटं यत्नोभून् । यथा यथा लोके कीर्तिः स्यात् तथा तथावतिष्टेत्यर्थः । बुद्धिप्रकर्षे हेतुगैर्भ विशेषणद्वयमाह । मुनेरपि सकाशान्मुनेरत्यन्तं जितेन्द्रियस्येत्यर्थः । तथा साधोरपि शिष्टादपि सकाशासाधोः । स्याद्विजितेन्द्रियस्य सदाचारस्य च नरस्य बुद्धिप्रकर्षः ॥
कीर्तये । चारवे । मुनेः । साधोः । मुनेः। साधोः । इत्येषु “डित्यदिति" [२३] इत्येदोतौ ॥ अदितीति किम् । बुधाः ॥
ते गुणा अमुना कीर्तिशुचिनात्मनि रोपिताः ।
शंभोः सख्यावपां पत्यौ योः फ्तौ च विधौ च ये ॥१६८ १६८. शंभोः सख्यौ धनदेपां पत्यौ वरुणे द्योः पतौ चन्द्रे च विधौ चेन्दौ च ये गुणा औदार्यन्यायपरमैश्वर्यसौम्यत्वादयः सन्ति ते गुणा अमुना राज्ञात्मनि रोपिताः संस्थापिताः । अत एव कीर्तिशुचिना । महापुरुषगुणधर्धारणे हि निष्कलई यशः प्रसरति ॥
बहुपत्यौ भुवनानामसखौ रणकर्मणि ।
अस्मिन्नरपतौ सर्वान्को गुणान्वतु मीश्वरः ॥ १६९ ॥ १६९. भुवनानां बहुपत्यौ भुवनानां पतिर्जगन्नाथो विष्णुस्तस्मिन्नीषदूने शौर्यादिगुणैर्विष्णुतुल्य इत्यर्थः । अत एव रणकर्मणि युद्धक्रियायां
१ए यै च की. २ एफ वतिष्ठतीत्य. ३ बी गर्भवि . ४ एफ बुद्धेः प्र. ५ एक तौ आदि. ६ एफ पनौ व.७ एफ ताः । अ. ८ एफ धारिणो हि.