________________
१०२ व्याश्रयमहाकाव्ये
[मूलराजः] गुरू महत्यौ । अत एवातिखियो । स्त्रीशब्देनात्र स्वीगते अबलताभीती उपचागदुच्यते । त्रियमतिक्रान्ते स्त्रीगतावलताभीतिसकाशादप्यधिके इत्यर्थः । यदायं राजा रणभूमिमापतति तदा वैरिणः स्त्रीभ्योप्यधिकमबलाभीताश्च सन्तः शस्त्राणि मुञ्चन्तीत्यर्थः । यावप्यतिस्त्रियौ ब्रह्मचारित्वात्खियमतिक्रान्तौ चारूं प्रशान्ततया मनोहारिणौ गुरू आचार्यों भवतस्तौ चापेषुधी त्यक्त्वा वैरिभिरपि श्रीयेते तथाविधैतद्दर्शने वैरानुबन्धोपशमादित्युक्तिः ॥
अस्याभूवन्ननाहार्या बुद्धयः कामधेनवः । त्रासादतिस्त्रयोनेन चक्रिरेंहंयवोरयः ॥ १६६ ॥ १६६. अस्य राज्ञोनाहार्या अकृत्रिमा मञ्याद्युपदेशं विनापि संसिद्धा इत्यर्थः । बुद्धयो मनोभीप्सितपूरकत्वेनानाहार्याः केनापि हर्तुमशक्या: कामधेनव इव कामधेनवोभूवन् । अत एवानेन राज्ञाहंयवोहंकारिणोरयस्त्रासाद्भीतेरतित्रयः स्त्रियोपि सकाशाद्भीरवश्चक्रिरे ।।
अबलताभीती । गुरू चापेषुधी चारू त्यक्त्वा । इत्यत्र “इदुतोः"[२१] इत्यादिना-ईदूतौ ॥ अरेरिति किम् । अतिस्त्रियौ । इदमेव चास्त्रिग्रहणं ज्ञापकं परेणापीयादेशेनेत्कार्य न बाध्यत इति । तेनातिस्त्रयः ॥
अरयः । अहंयवः । बुद्धयः । धेनवः । अतिस्त्रयः । इत्यत्र “जस्येदोत्" [२२] इत्येदोतो ॥
१ एफ तिखियो'.
१ एफ ते स्त्रीम. २ एफ बलताभी.° ३ ए मुवतीत्य. सी डी मुधुन्ती. ४ एफ त्वात्लीम. ५ एफ रूपशा'. ६ डी ईका. ७ बी सी तित्रियः ८ एफ चालेह'. ९ एफ नेतत्का.