SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] सति न प्रथमास्तेजस्विनोभूवन्ने च चरमाः । सूर्योदयादपि पूर्व रात्री प्रथमे मुख्याश्चन्द्रग्रहाश्वरमेपि चामुख्या नक्षत्रतारास्तेजस्विनो भवन्ति रवौ तूदिते नेति ॥ द्वये त्रयाश्चतुष्टये पञ्चतयाश्च के चन । गुणानस्य क्षमा वक्तुमल्पेल्पा गीर्पतेर्न ये ॥ १५२ ॥ १५२ ये गीर्पतेव्हस्पतेः सकाशानाल्पा वाग्मितया न न्यूनास्तेल्पे के चन स्तोकाः केप्यस्य राज्ञो गुणाशौर्यादीन्वक्तुं वर्णयितुं क्षमाः । अल्पेपि कियन्त इत्याह । द्वौ त्रयश्चत्वारः पञ्च वावयवा येषां ते तथा द्वौ त्रयश्चत्वारः पञ्च वेत्यर्थः । द्वय इत्यत्र द्वाववयवौ येषामिति यच्छन्दवाच्ययोर्द्वयोरपि गौरवविवक्षायां "गुरावेकश्च" [२.२.१२४] इति बहुवत्वाबहुवचनम् । अन्यथा द्विवचनमेव प्रसक्तम् ॥ कतिपयेपि गीर्वाणा नागाः कतिपया अपि । मणयः कौस्तुभस्येव बभूवुर्नास्य संनिभाः ॥ १५३ ॥ १५३ कतिपयेपि स्तोका अपि गीर्वाणा ऊर्ध्ववासिदेवाः । नागा नागकुमाराः । ऊर्ध्वलोकेधोलोके च मूलराजतुल्यो न कोप्यभूदित्यर्थः । शिष्टं स्पष्टम् ॥ सर्वे । इत्यत्र “जस है:" [९] इति-इः । नेमे नेमाः । अर्धे अर्धाः । प्रथमे प्रथमाः । चरमे चरमाः । चतुष्टये पञ्चतयाः । द्वये त्रयाः । अल्पे अल्पाः । कतिपये कतिपयाः । इत्यत्र "नेमाई" [१०] इत्या. दिना वा जस हः ॥ १ सी डी ४ पफ : ने. न चर'. २ सी डी वच. ३ डी र्थः । शेषं स्प.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy