SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्ये मूलराजः] दातृष्वेकतमस्मादेकतरस्माच्च देस्रयोः । कतमस्मिन्सर्वतमे देशेस्मानाभ्यगाद्यशः ॥ १४१ ॥ १४१. अस्मान्नृपात्सकाशात्सर्वतमेतिशयेन सर्वस्मिन्देशे कतमस्मिम्कस्मिन् यशो नाभ्यगान ययौ । सर्वशब्दोत्र तमप्यसंकुचितवृत्ति. स्ततो जगत्रयेप्यस्य यशो विस्तीर्णमित्यर्थः ! यतो दातृपु मध्य एकतमस्मादसाधारणात्तथा रूपातिशयेन दस्रयोरश्विनीकुमारयोर्मध्य एकतरस्मादन्यतरस्मात् । दानरूपातिशयेन हि प्रसरति दिशो दिशं यशो नरस्य ।। त्वस्माद्याच्आपराविन्द्रोपेन्द्रौ दानैकशालिनः । नेमस्मायपि कल्पेते नास्य हेतुं गुणवतम् ॥ १४२ ॥ १४२. गुणत्वतं हेतुम् । त्वच्छन्दः समुच्चयार्थः । शौयौदार्यादिगुणसमूहन हेतुनेन्द्रोपेन्द्रौ शक्रविष्णू अस्य राज्ञो नेमस्मायपि खण्डायाप्यर्थाद्गुणसकलायापि न कल्पेते नालं भवतः । यतो दानेनैकेनाद्वितीयेन न तु याच्या शालते शोभत इत्येवंशीलो यस्तस्य । प्रभूतगुणैरपीन्द्रोपेन्द्रौ दानैकशालिनोस्य गुणांशमात्रस्यापि तुल्यौ न भवत इत्यर्थः । यतस्त्वस्मादन्यस्माद्याच्ञापरौ याचकौ । इन्द्रो हि बलिष्ठे बलिदैत्येप्रभवन् विष्णुं बलिंबन्धं ययाचे विष्णुश्च बलिं त्रिपदीमिति । याबायां च सर्वे गुणा भंसन्ते । उक्तं च । देहीति वचनं श्रुत्वा दहस्थाः पञ्च देवताः । नश्यन्ति तत्क्षणादेव श्रीहीधीधृतिकीर्तयः ।। १ ॥ १एदश्रयोः ।। २ बी कल्प्येते. - - १ सी स्मि य. एफ 'स्मिन्कतरस्मि'. २ बी शोदशय. ३ सी डी शो नृपस्य. ४ बी कल्प्येते. ५ ए बी डी लिव्धं य. सी लिबन्ध य. ६ वी चेति वि'. ७ वी सी डी यां स'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy