________________
[है. १.४.६.]
प्रथमः सर्गः। गुणास्तावद्यशस्तावद्यावांचेत नो नरः । प्रार्थनायां पुनस्तेपि प्रणश्यन्ति हता इव ॥ २॥ पूर्वस्माच परस्माच्च समस्मादसमाद्गुणैः ।
उत्कृष्टो राजकाहत्ते सिमस्मै स्मैष विस्मयम् ॥ १४३ ॥ १४३. एष राजा सिमस्मै सर्वस्मै लोकार्य विस्मयमाश्चर्य दत्ते स्म । यत: पूर्वस्माञ्चैतदपेक्ष्या जन्मना प्रथमात्परमाच जन्मना पश्चिमाञ्च किं बहुना समस्मात्सर्वस्माद्राजकानृपौघादुत्कृष्ट उत्तमः । ननु तद्राजकं विगुणं भविष्यति तन्मध्ये चासौ केनाप्यकेन गुणेन युक्त उत्कृष्टो भविष्यति यथान्धेषु काणोपि भातीति निर्गुणत्वनिराकरणायाह । गुणैः शौर्यादिभिरसमादसाधारणात् ।।
दक्षिणस्मादुत्तरस्मादपरस्मात्तथान्यतः।
कृष्णायास्मायवरस्मायधरस्मिन्न को नतः । १४४ ॥ १४४. दक्षिणस्मादुत्तरस्मादपरस्मात्पश्चिमात्तथान्यतः पूर्वस्माञ्च देशादागत्यास्मै राज्ञेधरस्मिन्नधोदेशे पादयोः को न नतो यत: प्रजारक्षाप्रतापादिनावरस्मै कृष्णाय द्वितीयाय विष्णवे । कृष्णाय हि सर्वदेशेभ्य आगत्य जनः प्रणमति । एतेनास्य राज्ञः सर्वजगदशीकार उक्तः । दक्षिणस्मादित्यादौ कुसूलात्पचतीत्यादाविवोपात्तविषयेपादाने पञ्चमी ।
परस्वायास्पृहयालु स्वस्मायश्लाघनः सदा ।
दक्षिणाय द्विजस्खाय स्वस्मायिव ददावसौ ॥ १४५ ॥ १४५. असौ राजा दक्षिणाय प्रवीणाय द्विजस्वाय ब्राह्मणज्ञातये स्वस्मायिवात्मीयाय स्वजनायेव सदा गोधनादि ददौ । दाताप्यन्यायेन
१ एफ वाचति नो. २ सी यमा. ३ एफ ष्यतीति.