________________
[है. १.३.६०.] प्रथमः सर्गः।
मूर्धन्यत्वं शश्वदृववडवडवण्णवत् ।
सूनृतस्फुटवक्तृणामीट्टे को नेह कोविदः ॥ १२४ ॥ १२४. इह पुरे सूनृतस्फुटवक्तृणां सत्यप्रकटवादिनां मूर्धन्यत्वं मूर्धस्थायित्वमन्यस्थानस्थाखिलसूनृतस्फुटवक्तृभ्यः प्रधानतामित्यर्थः । क: कोविदो विद्वान्ने? । किं तु सर्वोपि वर्णयतीत्यर्थः । यथा टस्य ठस्य डस्य ढस्य णस्य च मूर्धस्थानभवत्वेन मूर्धन्यत्वं मूर्धस्थानभवत्वं कोविदो वैयाकरण ऋवर्णटवर्गरषा मूर्धन्या इति शिक्षापदेन वर्णयति । शब्दश्लेषेणोपमा ।
तन्वण्डामरतामग्रे कुर्वण्णकुटिलालकाः।
स्मरोस्मिण्ढौकितधनुर्विश्वमट्टितुमड्डति ॥ १२५ ॥ १२५. स्मरो विश्वमट्टितुं हिण्डितुं विजययात्रां कर्तुमित्यर्थः । अडत्युद्यच्छति । कीटक्सैन् । अस्मिन्पुरे वर्तमाना णकुटिलालका णकारवत्कुटिलकेशी: स्वीर्जगज्जयायाने कुर्वन् । एतेन सैन्यसंपदुक्ता । तथा ढौकितं जगजयाय प्रगुणीकृतं हस्ते गृहीतं धनुर्येन सः । धनुशब्दोत्रोदन्तः । सान्ते तु धन्वनादेश: स्यात् । एतेनास्त्रसंपदुक्ता । अत एव डामरनां प्रतापप्रचण्डिमानं तन्वन् विस्तारयन् । योपि सेनाशस्त्रप्रतापसंपदन्वितो विजिगीषुर्नृपः स्यात्स विश्वं जेतुमडुतीति ।
शकारेण योगे । उच्शलत् । अस्मिनशुशुभिरे ॥ चवर्गेण । उच्शलचामर । स्फुरच्छन । उज्वल । शश्वशाषित । तक्षुडुवे । प्रशाञ्चरञ्जनम् । प्रीणअषच ॥ पूर्वेण चवर्गेण । याजा । यज्ञ । राज्ञा ॥ पूर्वेण शकारेण परेण च षकारेण प्रतिपंधो वक्ष्यते । पूर्वेण तु षकारेण । पिष्टम् ॥ टवर्गेण । शश्वदृवटवड्वडवण्णवत् ॥ मह । महति ॥ अट्टि । अहितम् । तन्वण्डामरताम् । अस्मिण्ढौकित । कुर्वण ॥ पूर्वेण टवर्गेण । ईहे । इत्यत्र "तवर्गस्य" [१०] इत्यादिना वर्गटवर्गादेशौ ॥
१ एफस्स मू. २ सीडी सन् । पुरे ।. ३ ए धुं नृपः. ४ एफ चटवर्गा'.