SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [मूलराजः] १२२. अत्र पुरे विद्वान् । जातावेकवचनम् । पण्डितजातिश्छात्रेषु विषये तत्तद्यद्यच्छात्रा अध्येतुमिच्छन्ति तत्तव्याकरणादि बुडुवे व्याख्यदतो ज्ञायते गीरिव स्वयं मूर्ता सरस्वतीव । कीदृक् सन्। प्रशान् विद्यावलेपादिरहितस्तथा चरन्नतिभूरित्वेन दूरस्थानां छात्राणामध्ययनात् प्रमाद्यतामुत्साहनाय तन्मध्ये विचरंस्तथा बकुटिलाशयान । बकारवत्कुटिलचित्तान् परम्परमात्सर्यादिना कलहादि कुर्वतश्छात्रानित्यर्थः । झषन् प्रलम्बकम्बया ताडयन्नत एव भव्यरीत्या पाटनेन जनं प्रीणन्। गीरपि प्रशान्ता सर्वत्र स्वेच्छया विहरति बकुटिलाशयान कुवादिनो झषति निराकरोति जनं प्रीणयति तत्तदनेकविधं शास्त्रजातं व्याख्याति च । यद्वात्र पुरे चरन् कणवृत्त्यै भ्राम्यन् सन् विद्वान्वेदोपाध्यायश्छात्रेषु बैटुषु तत्तद्यद्यदध्येतुमिच्छन्ति तत्तद्वेदशास्त्रं बुडुवे बैदन्पाठितवानित्यर्थः । वेदपाठो हि द्विजैमिक्षाभ्रमणं कुर्वद्भिविधीयते । शेष पूर्ववत् ॥ स यज्ञपुरुषः स्पर्दामस्मिन् राजा कथं वहेत् । द्विषद्याच्चैकवज्रेण पिष्टं यस्याखिलं यशः ॥ १२ ॥ १२३. दानैकशौण्डत्वेनात्रत्यराजस्य याच्या सर्वथाखण्डितयशस्कत्वादस्मिन् राज्ञात्रत्यनृपेण सह स्पर्धा साम्यं स यज्ञपुरुषो विष्णुः कथं वहेत् । यस्याखिलं यशो द्विषतः शत्रोर्या याच्या प्रार्थना सैव यशःशरीरस्य चूर्णकत्वेनैकमाद्वितीयं निरुपमं वत्रमशनिस्तेर्ने पिष्टं चूर्णितम् । मित्रादपि याच्या लाघवहेतोर्यशः पिनष्टि किं पुनः शत्रोः । विष्णुनो तु द्विषन् बलिर्वामनीभूय त्रिपदी याचित इति ॥ १ सी डी ५५ °ना तदि. ति ज. २ एफ बहुषु. ३ एफ बहून्पा. ४ ए न चू.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy