________________
व्याश्रयमहाकाव्ये
[मूलराजः] यदि स्त्रीणां श्रुतास्मिन् गीर्यदि दृष्टा मुखेन्दवः । कलः काणः खरः पिक्याः फल्गुश्चन्द्रोपि तय॑ते ।। १११॥ १११. अस्मिन्पुरे स्त्रीणां यदि गीर्वाणी श्रुता तदा पिक्या: कोकिलायाः कलो मधुगेपि काणः शब्दः खरः कठोरस्तफ्ते ! अर्थाल्लाकैः । तथा स्त्रीणां मुखेन्दवो यदि दृष्टास्तदास्तां तावदन्यः कमलादिर्यावच्चन्द्रोपि सकलजगदाह्लादनहेतुकत्वेन सर्वत्र प्रसिद्ध इन्दुरपि फल्गुर्निरर्थकस्तय॑ते । स्त्रीमुखेन्दुभिरेव सर्वलोकाहादनलक्षणस्य चन्द्रकार्यस्य कृतत्वाञ्चन्द्रेण न किंचित्कार्यमिति लोकैर्विमृश्यत इत्यर्थः ॥
वसन्ताधर्तुभिः सर्वैर्युगपत्पर्युपासिते ।
प्रार्छन्ति क्रीडयोद्याने नापत्या इह नार्कुलैः ॥ ११२॥ १ १२. नृपतेरपत्यानि “अनि दम्यणि" [६.१.१५] इत्यादिना ज्ये नापल्या गजकुमारा नार्कुलैर्नुकुल उपचारानृगुणोपेतक्षत्रियवंशे भनैः पौरुषोपेतक्षत्रियकुमारैः सह क्रीडया गेन्दुकक्रीडादिकया हेतुनोद्याने प्रा
छन्ति गच्छन्ति । यतः कीदृशे सर्वैः षभिर्वसन्ताद्यर्तुभिर्युगपत्समकालं पर्युपासिते सेविते । सर्वक्रीडार्हगमणीयक इत्यर्थः । _ विरामे । मुग्वेन्दवः । अघोपे । कलः काणः स्वरः पिक्याः फल्गुः । ऋतुभिः सः इत्यत्र "रः पदान्ते" [५३] इत्यादिनी रस्य विसर्गः ॥ फल्गुश्चन्द्र इत्यादिषु तु शादय एवापवादत्वात्स्युः ॥ पदान्त इति किम् । तय॑ते । सर्वैः । कथं नार्पस्याः नार्कुलैः वसन्ताद्यर्तुभिः प्रार्छन्तीत्यादि । असिद्धं बहिरङ्गमन्तरङ्गे [न्या० सू० २०] इति वृद्धरारादेशाश्रयस्य रेफस्यासिद्धत्वाद्विसर्गों न
१ एफ् तुत्व'. २ एफ °स्य कर्तृत्वा'. ३ एफ अणि द. ४ °म्यण् इ १.५ सी डी कुलै उ०. एफ कुलैरुप. ६ डी वंशभ'. ७ डी दृशैः स. ८ एफना वि'. ९ एफ . १० ए सी डी एफ वृद्ध्यरा.