________________
[है० १.३.५२.] प्रथमः सर्गः। वा देहभाक् प्राण्युपाध्यायमत्रौषधिदेवतादिप्रभावेण सुवाग । संस्कृतवचनो भवति । तथा सतृट् धनधान्यादिषु सतृष्णो निस्तृई स्वर्णरूप्यादिसिद्ध्या पूर्णमनोरथत्वाद्विगतस्पृहः । तथा सलुप् शरीरावयवच्छेदवान् निर्लुब् देवतादिप्रभावेण पूर्णाङ्गावयवः । तथा विमुत् रोगातकादिना गतहर्ष: समुद् महावैद्यादिसंपत्त्या विगतरोगाद्युपद्रवत्वात्सहर्षो भवति । अत एवात्र देहभागमरैर्देवैः सध्या समो भवति । देवा अपि हि सुवाचो निस्तृषो निर्लुपः समुदश्च स्युः । यतोद्भुतास्पदे महोपाध्यायसप्रत्ययमंत्रौपंधीदेवतादिजनितानामद्भुतानां स्थाने । __ अवाक् सुवाग । सतृट् निस्तृड् । विमुत् समुद् । सलुप् निलब् । अत्र "विरामे वा" [५१] इति वा प्रथमः ॥ विराम इति किम् । देहभागमरैः॥ धुट इत्येव । सध्यङ्॥
कण्ठलग्नाः सदा स्त्रीणाम् खेलन्ति इह पिङ्गकाः। विरामे न प्रवर्तन्ते कदाचित्संधयो यथा ॥ ११०॥ ११०. सिन्वन्ति विलासान् "शादियः" इति गप्रत्ययान्तः पञ्चमोपान्त्यः षिङ्ग इति निपातः । यद्वा । सिटानादरेण गच्छति गायति वा "पृपोदरादयः" [३:२.१५५] इति षत्वे षिड्ग इति टवर्गीयतृतीयोपान्त्यः । अज्ञातेर्थे कपि षिगका भुजङ्गाः स्त्रीणां कण्ठलनाः कण्ठाश्लिष्टाः सन्त इह पुरे सदा खेलन्ति क्रीडन्ति । यथा विरामे वर्णानां विरतौ सति संधयः संधिकार्याणि "न संधिः" [१.३.५२] इति प्रतिषेधात्कदाचिन्न प्रवर्तन्ते । तथा विरामे खेलनानिवृत्तिविषये न प्रवर्तन्ते नोद्यच्छन्ति ।
खेलन्ति इह । स्त्रीणाम् खेलन्ति । इत्यत्र "न संधिः" [५२] इति संध्यभावः ॥ विरामे न प्रवर्तन्ते कदाचित्संधयो यथेत्यनेन चोपमानेन ते आहुः । तद् लुनाति । भवान् लुनाति इत्यादीनि शेषोदाहरणानि शापितानि ॥
१ एफ ताप्र° २ सी त था'. ३ बी ड् सुवर्ण . ४ एफ °हाविद्या . ५ सीडी 'महौष'. ६ °षदे'. ७ एफ हाताथे. ८ सी ति नसंधिमा . ९ सीडी लादिशे'.
१०