________________
१२०
श्रीसिद्धप्राभृतं सटीकम् ऽप्यवगाहविशेष एव मनागतिरिक्ता । यथा परमाणु:-"एगपएसोगाढो सत्तपएसा य से फुसणा।" अत एव सा एवं मन्तव्या
"फुसइ अणंते सिद्धे, सव्वपएसेहिँ णियमसो सिद्धो ।
तेऽवि असंखेज्जगुणा, देसपएसेहिँ जे पुट्ठा ॥१॥" यथा स्वप्रदेशैः स्पृष्टाः सिद्धास्तद्विवक्षितसिद्धाः अन्य(सिद्धान्य)सिद्धावगाहोऽप्यतः क्षेत्रादतिरिच्यते स्पर्शनेति । एवं तावन्निश्चयनयात् क्षेत्रस्पर्शने उक्ते । पूर्वभावप्रज्ञापनीयापेक्षया त्वाह
संखेज्जमसंखेज्जे, भागे भागेसु सव्वलोए वा । पुच्छा वागरणं पि य, खेत्ते फुसणा य बीएणं ॥६०॥
॥खेत्तदारं ॥ ॥ फुसणादारं ॥ "संखेज्ज" गाहा ॥ केवलिनमधिकृत्यैतदुच्यते-भागा देशाः खण्डानीत्यनान्तरम् । लोकाकाशस्य एकद्वित्र्यादिविभागाः । यथोक्तमार्षे "आगासत्थिकायस्स पएसा" तत्रैवंविधा देशा इति । अतः सरीरत्थो जया केवली तया असंखेज्जइमे भागे लोगस्सावगाढो । संखेज्जे वा भागे दंडपढमे समए, एत्थ उड्डाहोलोगवावित्तणओ थूरणयाभिप्पाएणं जहा-"कहिं भवं वसइ ? लोगे वसामि" इत्यादि, एवमत्रापि विशेषखण्डापेक्षया । संखेज्जेसु वा भागेसु मंथावत्थाए, जओ तत्थ लोगस्स चत्तारि खंडाणि पूरियाणि भवंति । असंखेज्जेसु वा भागेसु, एतत्तु नावगच्छामि, अतिगम्भीरत्वादभिप्रायस्य । सव्वलोए वा, चउत्थे समये लोकव्यापित्वादिति । 'पुच्छा' "कि केवली लोगस्स असंखेज्जभागे होज्जा संखेज्जभागे वा होज्जा ?" इत्यादि, वागरणं पि य एवमेव । 'खेत्ते'त्ति एवं तावत्क्षेत्रमधिकृत्य । फुसणा य 'बितिएणं' द्वितीयेनानेनैव व्याख्याप्रकारेणेदमेव गाथासूत्रमङ्गीकृत्येति गाथार्थः ॥६०॥ उक्ते क्षेत्रस्पर्शनाद्वारे ॥
साम्प्रतं तेषामेव क्षेत्रस्पर्शनावतामवस्थितिपरिणामावधारणार्थं काल उच्यते,
१. '-तसिद्धावगाहोऽप्यतः क्षे-' ङ। २. 'अतिगभीर-' ङ। ३. '-प्रकारेणैवमेव' क-ख । ४. '-नावस्थि -' क-ख। --