________________
श्रीसिद्धप्राभृतं सटीकम्
११९ "जेसिं अणंतकालो" गाहा कण्ठ्या ॥५७।। अन्तरानुसमयद्वारद्वयाभिधित्सयाऽऽह - संतरणिरंतरं वा, एगादी सिज्झई उ अट्ठसयं । दोण्णि य णिरंतराणं, जाव पुहत्तं सयाणं तु ॥५८॥॥ दारं ॥
"संतरणिरंतरं वा" गाहा ॥ सान्तरं निरन्तरं वा एक्को दो बहवो वा यावदष्टशतं सिध्यन्तीति । अन्तरद्वारम् । णिरंतरं वा एक्को बहवो वा सिध्यन्ति । कथम् ?, एगाई बत्तीसंता अट्ठसमए जाव णिरंतरं सिझंति । एवं तेत्तीसाई अडयालंता सत्तसमए । अउणपण्णाई सट्ठिपज्जंता छस्समए । एगसट्ठिप्पभिई बावत्तरिपज्जता पञ्चसमए । तेवत्तरिआई चुलसीतिपज्जंता चत्तारि समए । पंचासीतिपभिई छण्णउइपज्जंता तिण्णि समए । सत्ताणउइप्पभिई दुरहियसयपज्जंता दोसमए । अट्ठसयं एक्कं चेव समयं सिज्झइ । तत्र 'दोण्णि य णिरंतराणं'ति एवं अट्ठसमया द्विसमयपर्यन्ता निरन्तरसिद्धा वेदितव्याः । तत्रैकेकस्मिन् विकल्पे शतपृथक्त्वं मन्तव्यमिति गाथार्थः ।।५८॥
गणनाद्वारमाहसंखाए जहण्णेणं, एक्को उक्कोसएण अट्ठसयं । ॥ दारं ॥ "संखाए" गाथा) कण्ठ्यम् । पश्चार्द्धनाल्पबहुत्वद्वारमाहसिद्धा णेगा थोवा, एक्कगसिद्धा उ संखगुणा ॥५९॥
॥ दव्वपमाणं गयं ॥ "सिद्धा णेगा थोवा" कण्ठ्यम् । इति गाथार्थः ॥५९॥ मूलद्वारेषूक्तं द्रव्यप्रमाणम् ॥
इदानीं तेषां परमार्थसतां गणनया प्रमितानां क्षेत्रम्-अवगाह: स्पर्शना च तुल्ययोगक्षेमत्वावे अप्युच्येते । तत्र क्षेत्रं सत्पदप्ररूपणानुसारतोऽवगतपरमार्थं सर्वं प्रत्युत्पन्ननयदृष्ट्या वेदितव्यम्, यत ऋजुश्रेणिगत्या तत्र गताः सिध्यन्ति, "इहं बोंदिं चइत्ताणं तत्थ गंतूण सिज्झति" त्ति वचनात्, अतः सर्वसिद्धव्याप्त्या समयक्षेत्रतुल्यम् । एकैकसिद्धापेक्षया तु स्वावगाहमात्रम् । स्पर्शना