________________
११४
श्रीसिद्धप्राभृतं सटीकम्
अत एवान्यत्राप्युपदेशार्थमाह
जत्थ 'हविज्ज विसेसो, तत्थ परूवेज्ज जं वियाणेज्जा । जत्थ ण होज्ज विसेसो, तत्थ वि एवं चिय भणेज्जा ॥ ४२ ॥ ॥ संतपयपरूवणादारं सम्मत्तं ॥
" जत्थ भवेज्ज विसेसो" गाहा || 'यत्र' भावाल्पबहुत्वादौ द्वारान्तरे हवेज्ज 'विसेसो' भेदो यथा नारकगत्याद्यनन्तरौदयिकभावे तथा निसर्गोपशमिकसम्यग्दर्शनाद्यनन्तरभाव इत्यादि अल्पबहुत्वे च यथा परम्परसिद्धप्ररूपणायां तत्र प्ररूपयेद्यत्किञ्चिज्जानीयात् । जत्थ ण होज्ज विसेसो तत्र किम् ? 'तत्थ वि एयं चिय भणेज्जा' सत्पदाभिहितं सन्मात्रमिति गाथार्थः ॥४२॥
गतं सत्पदप्ररूपणद्वारम् । साम्प्रतं प्रथमपदे सन्मात्रतया निरूपितानां सिद्धानां पञ्चदशभिरेव मार्गणाद्वारैर्द्रव्यप्रमाणमुच्यते । तत्राद्यद्वयमधिकृत्य लाघवार्थमोघतोऽतिदेशमाह
उभयम्मि खेत्तकाले, सट्टाणे सिज्झई उ अट्ठसयं । वीसपुहुत्तं वीसा - एगयरे दस उ साहरणे ॥४३॥
" उभयम्मि खेत्तकाले" इत्यादि । क्षेत्रं च कालश्चेत्येतदेवोभयं तत्र, एतस्मिन् किम् ? अत आह— ' सट्टाणे सिज्झई तु अट्ठसयं' यत्र जात: सिध्यति तत्स्वस्थानं तिर्यग्लोकादि क्षेत्रम्, कालस्तु अवसर्पिणीउत्सर्पिणीनोउत्सर्पि(ण्यवसर्पि) ण्यादि, तत्राष्टशतं सिध्यति । वीसपुहुत्तं अहोलोए, द्विप्रभृतिरानवभ्यः पृथक्त्वम्, अधोलोईयगामेसु एयं, वीसा एगयरे विजय इत्यर्थः । दस उ साहरणे जत्थ जा (नी ) ओ तत्थ देवकुरूत्तरकुरुप्रभृतिकाले सुसमसुसमाइए इति गाथार्थः ||४३||
साम्प्रतं क्षेत्रमेवाधिकृत्य विभागत आह
चत्तारि उड्डलोए, जले चक्कं दुवे समुद्दम्मि । अट्ठसयं तिरिलोए, वीसपुहुत्तं अहोलो ॥४४॥
१. 'हवेज्ज' ङ । २. 'होइ' ग घ । ३. 'तत्थ' ङ । ४. 'सिज्झति' ङ ।