________________
श्रीसिद्धप्राभृतं सटीकम्
११३ पूर्वनयस्य पुनरनेकापेक्षयाऽस्ति व्यवहारपरत्वादस्येति । शेषं प्रकटार्थमिति प्रागर्धम् । पश्चार्धेनाणुसमयद्वारमाह-दोण्णि समये 'त्यादि प्रकाशमिति गाथार्थः ॥३९॥
गणनाद्वारमाहसंखाएँ जहण्णेणं, एक्को उक्कोसएण अट्ठसयं ॥॥ दारं ॥ सिद्धाऽणेगा थोवा, एक्कगसिद्धा उ संखगुणा ॥४०॥॥दारं ॥
"संखाए" गाहा ॥ प्राग) कण्ठ्यम् । पश्चार्थेनाल्पबहुत्वद्वारमाह'सिद्धाऽणेगा थोवा' नैके-अनेकसिद्धा एकसमयेन स्तोकाः । तेभ्य एक एव सिद्धाः 'सङ्ख्येयगुणा इति गाथार्थः ॥४०॥
यथा सत्पदप्ररूपणाद्वारं पञ्चदशभिः क्षेत्रादिमार्गणाद्वारैरुक्तम्, एवमेव सकलमार्गणाद्वारव्याप्त्या द्रव्यप्रमाणादिमूलद्वारचतुष्टयमपि द्रष्टव्यम्, तथैव वक्ष्यमाणत्वात् । अत एव सत्पदप्ररूपणामध्येऽतिदिशन्नाह
अंतरदारं कालो, दव्वप्पमाणं च अप्पबहुदारं । एएसिं सट्ठाणे, तह वि य दारं करे सफलं ॥४१॥
"अंतरदारं कालो" गाहा ॥ सम्बन्धेनैव रंगतार्थं गाथार्धम् । किमर्थमिदम् ? इत्युच्यते-यतो मार्गणाद्वारेषु यदन्तरं तथा कालः तथा गणनैव द्रव्यप्रमाणमुच्यते, सङ्ख्या चेत्यनर्थान्तरम्, तथाऽल्पबहुत्वमित्येतद् द्वारचतुष्टयमपि मूलद्वारचतुष्टयादभिन्नार्थमतः किमर्थं पुनर्मार्गणाद्वारेषूपन्यस्यते ? इत्यस्य सन्देहस्यापनोदार्थम्, अयमत्र भावार्थ:-एभिः सत्पदादीनां सन्मात्रादिविभागप्रदर्शनार्थमुपन्यासः । विस्तरार्थस्त्वेषां मूलद्वारगत एव द्रष्टव्यः । तथा चाह-एतेसिं सट्टाणे' एतेषां त्वैदम्पर्यार्थ:-विस्तरार्थः 'स्वस्थाने' मूलद्वारेषु द्रष्टव्यः । 'तथाऽपि चे'त्येतत्प्रागभिहिताशङ्कितोत्तरद्वारं किञ्चिदिहावसरप्राप्तं करोमि सफलं यथेदं सत्पदप्ररूपणाद्वारमिति गाथार्थः ॥४१॥
१. 'संखगुणा' ङ। २. 'गतार्थमर्धम्' क-ख-ग-घ ।