________________
श्रीसिद्धप्राभृतं सटीकम्
इदानीं याभ्यां व्याप्तिदृष्टा ताभ्यां निर्दिशन्नाहबितियततिएहिं एत्तो, णएहि खेत्ताइमग्गणा भणिया। संखेवे वित्थारे, जो य विसेसो य विणणेओ ॥१६॥
"बितियतइएहि" गाहा ॥ ‘एत्तो 'त्ति द्वितीयतृतीयाभ्यां अनन्तरपूर्वभावप्रज्ञापनीयसांव्यवहारिकप्रत्युत्पन्नभावप्रज्ञापनीयसञ्ज्ञाभ्यां खेत्ताइमग्गणा भणिया आप्तैः सङ्क्षपं विस्तरं चाधिकृत्य सैवेहापि नयोक्ते प्रकरणे विज्ञेया। यश्चात्र विशेषः स च विज्ञेय इति गाथार्थः ॥१६॥
अमुमेवार्थं स्पष्टयन्नाहपगयं पच्चुप्पण्णे-णण्णतरेणं च पुव्वभावेणं । जम्हा सव्वे भावा, परंपरत्ते समणुभूया ॥१७॥
"पगयं पच्चुप्पण्णेणे"त्यादि कण्ठ्यं प्रागर्धम् । पश्चार्धमपि 'जम्हे'त्यादि। अतः परम्परपूर्वभावप्रज्ञापनीयोऽपि नाधिक्रियते । पारिशेष्याद् द्वावेव नयौ अधिक्रियेते इति गाथार्थः ॥१७।। ____ एवं तावदुपयोगिनो ये नयास्ते प्ररूपितास्तद्विषयविभागश्च प्रदर्शितः । साम्प्रतं सत्पदादीनां मार्गणाद्वारेषु प्ररूपणा क्रियते । तत्रापि 'यथोद्देशस्तथा निर्देशः' इति न्यायात्क्षेत्रद्वारमधिकृत्य तावत् क्रियते । सिद्ध इत्यस्य पदस्य क्व क्षेत्रे पदार्थसद्भावोऽस्ति ? क्व वा नास्ति ?, तत्र यत्र नास्ति तत्क्षेत्रप्रदर्शनायाह
जत्थ णवि भूयपुव्वं, ठाणणिसीयणतुयट्टणं वा वि । तत्थ उ चरिमसरीरो, ण भूयपुव्वो भविस्सो वा ॥१८॥
"जत्थ णवि भूयपुव्वं" इत्यादि । किं तत् ? इत्याह-स्थानंकायोत्सर्गः निषीदनं-आसनं त्वग्वर्तनं-शयनं वापि । तत्र तु चरिमशरीरो न भूतपूर्व इति, कोऽर्थः ?-अतीते काले अनादौ, भविष्ये वेति एवमागामिनि कालेऽनन्ते । कस्मात् ? यतस्तत्र चरमशरीरस्य शरीरकं न सम्माति न चावतिष्ठते, पर्वतकूटादौ निःशुषिरेऽतिस्वल्पशुषिरे वा गोपुच्छाकृतौ वा अग्रे वा
१. 'विस्तारं' ख-घ-ङ पुस्तकेषु । २. 'मयोक्ते' ख-घ-ङ पुस्तकेषु । ३. 'यो ना'-क-ग-पुस्तकयोः ।