SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १०४ श्रीसिद्धप्राभृतं सटीकम् "खेत्तगई आयभावे" इत्यादि ॥ क्व क्षेत्रे आधारे सिद्धो भवति ? उच्यते-'आयभावे' सिद्धभावे यतः सिद्धो भवति स च सिद्धिक्षेत्रे अतः सिद्धिक्षेत्राधार एवसिद्धो नान्याधारः । एवं 'सिद्धिगई चेव होइ णिच्छइए' सिद्धिरेव नान्या गतिराधारत्वेन प्ररूपयितव्या, निश्चयप्रत्युत्पन्ननयमङ्गीकृत्येत्यर्थः । 'कालंतरे'त्यादि पश्चा?क्तद्वारत्रितयेन रहित एव सिद्धः प्ररूपयितव्य एतन्नयदृष्ट्या । यतः कालो नास्ति सिद्धिक्षेत्रे । अन्तरमप्यनेकाश्रयं, अनुसमयद्वारं च, यतः अतीतानागते परकीयं चास्य नास्ति । "णाईयमणुप्पन्नं, परकीयं वा पओयणाभावा ।" इति वचनात् । वेदतीर्थलिङ्गचरित्रद्वारचतुष्टयेनापि रहितः, भावतीर्थलिङ्गचरित्राणामपि तत्राभावः, "नो 'चारित्री [नो अचारित्री सिद्धः" इति न्यायादिति गाथार्थः ॥१४॥ बुद्धे णाणोगाहण, अप्पडिवडितो य आयभावे त्ति । णिच्छय पढमणयस्स रेय, अंतपया दोण्णि चउसुं पि ॥१५॥ "बुद्धे णाणोगाहण" इत्यादि । [बुद्धत्वादि]युक्त एव सिद्धः यत आत्मभाव एव सिद्धो भवति न च परभावे । 'अपरिवडिओ' त्ति अयमुत्कृष्टद्वारविकल्पः, यतस्तस्य चत्वारो विकल्पा:-अप्परिवडिया १ संखेज्जकालपरिवडिया २ असंखेज्जकालपरिवडिया ३ अणंतकालपरिवडिय ४ त्ति । 'णिच्छय'त्ति निश्चयप्रत्युत्पन्नस्यैषा प्ररूपणा समाप्तेति । अथ प्रथमस्य पुनः का? भण्यते-पढमणयस्स उ 'खेत्ते काले गतिवेदे' त्याद्यशेषद्वारविषयेति वाक्यशेषः । कुत एषोऽर्थो लभ्यते ? इति तदुच्यते-"आइल्लेसुं तिसुं पगयं" इत्यस्मात्सर्वद्वारविषया प्ररूपणाऽस्येति । 'अंतपया दोण्णि चउसुं पि' त्ति "गणणप्पबहुं" इत्येते द्वारे चतुर्खपि नयेषु ल्यब्लोपे सप्तमी, चतुरोऽपि नयानधिकृत्य वक्तव्ये इत्यर्थः । यतो गणनाद्वारे एगाई सिद्धा अष्टशतं यावत् अतो निश्चयस्यापि एकसिद्धः परमार्थः । अल्पबहुत्वेऽपि एकसिद्धोऽल्प इति गाथार्थः ॥१५॥ १. 'चरित्री' ख-ङ पुस्तके । २. 'भावेन' क-ग पुस्तकयोः । 'भावे य' ख पुस्तके । ३. 'उ' ख-ङ पुस्तकयोः ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy