SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् १०३ "णत्थि णएहि विहूणं सुत्तं अत्थो व जिणमए 'कोई ॥" विशेषत इह प्रक्रमे । अत आह दुविहो णओ उ भणिओ, पच्चुप्पण्णो य पुव्वभावो य । दुविहो पुण एक्केक्को, आइल्लेसुं तिसुं पगयं ॥१२॥ "दुविहो णओ उ भणिओ पच्चुप्पण्णो य"त्ति ॥ अत्रोत्तरपदलोपात् प्रत्युत्पन्नभावप्रज्ञापनीयश्चेत्येवं द्रष्टव्यम्, 'पुव्वभावो य' त्ति पूर्वभावप्रज्ञापनीयश्च । चशब्दौ स्वगतभेदसूचकौ । यत आह–'दुविहो पुण एक्केक्को ' अयं च बन्धानुलोमक्रमः न त्वर्थक्रमः । अर्थक्रमः कः ? इति चेदुच्यते, “पाठक्रमादर्थक्रमो बलीयान्" इति न्यायादर्थक्रमोऽयम्-परम्परपूर्वभावप्रज्ञापनीयः प्रथमः अनन्तरपूर्वभावप्रज्ञापनीयश्च, एतौ आद्यनयविकल्पौ । अर्थश्च क्रमोपन्यासादिकः आर्षः सौत्रः स्पष्ट एव । द्वितीयनयविकल्पाविमौसंव्यवहारप्रत्युत्पन्नभावप्रज्ञापनीयः निश्चयप्रत्युत्पन्नभावप्रज्ञापनीयश्च । अनेनैव क्रमेणामी चत्वारो नयाः । यत आह-"आदिल्लेसुं तिसुं पगतं" प्रकृतंप्रयोजनं संव्यवहार इत्यर्थः । यतो निश्चयप्रत्युत्पन्नस्य क्षेत्रगत्यादिषु कतिपयेष्वेव द्वारेषु व्यापारो न सर्वेष्विति ॥१२॥ साम्प्रतं स्वत एव प्रभेदोपन्यासार्थमाहपच्चुप्पण्णो दुविहो, संववहारो य णिच्छओ चेव। दुविहो य पुव्वभावे, अणंतर परंपरो चेव ॥१३॥ "पच्चुप्पण्णो दुविहो" इत्यादि गतार्था ।। अत्राह पर:-नैगमादिनयोपन्यासः किं न कृतः ? इत्युच्यते-तेषामिहानुपयोगित्वात् सामान्यविशेषात्मकत्वाद्वा तेषामत्रैवान्तर्भावादिति ॥१३॥ साम्प्रतं चतुर्थनयस्याल्पवक्तव्यत्वाद् व्यापार प्रदर्शयन्नाह खेत्तगई आयभावे, सिद्धगई चेव होति णिच्छए । कालंतरमणुसमयं, वेदादिचउक्करहितो य ॥१४॥ १. "किंचि" ङ पुस्तके । २. 'तु' ङ पुस्तके । ३. 'होइ' ङ पुस्तके।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy