SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् सत्पदप्ररूपणभावोऽनन्तः क्षेत्रकालगत्यादिमार्गणाद्वारेषु विस्तरेण कथ्यते । पुनस्तेनैव क्षेत्रादिमार्गणानुक्रमेण सिद्धद्रव्यमानमुच्यते । कुत्र ? भरतैरावतवर्षधरपर्वतादौ किंपरिमाणाः सिध्यन्ति ?, अन्यत्र नेति । ततस्तेषामेव द्रव्यतया मितानां यदुक्तं सामान्यतः 'कत्थ व' कुत्र वा क्षेत्रे ? इत्येतदेवाधुना पञ्चचत्वारिंशद्योजनलक्षप्रमाणं विस्तरतः क्षेत्रादिविभागेनाख्यायते । तथा" तिणि सया तित्तीसा, धणुत्तिभागो य होइ बोद्धव्वो ।" यावत् "एगा य होइ रयणी, अट्ठेव य अंगुलाई साहि( ही ) या " इत्यादि । पुनरवगाहनानन्तरं स्पर्शना तेनैव क्षेत्रात्कथञ्चिद्भिन्ना । यथा— १०२ "फुसइ अणंते सिद्धे, सव्वपएसेहिं णियमसो सिद्धो । ते उ असंखेज्जगुणा, देसपएसेसु जे पुट्ठा ॥१॥" इत्यादि । तदनन्तरं यदुक्तं सामान्यतः 'केवइकालं' स एव काल इह क्षेत्रादिविशेषेणोच्यते । यथा सिद्धा अन्योऽन्यावगाहिनः सर्वदेशप्रदेशस्पर्शवृत्त्या साद्यपर्यवसानं सर्वकालं तिष्ठन्तीत्यादि । शेषान्तरादिद्वाराणामप्यनेनैव क्षेत्रादिमार्गणानुक्रमेण भावार्थोऽवसेयो यावत्सन्निकर्षः । सन्निकर्ष इति सर्वद्वारसम्बन्धेन सम्- एकीभावेनाल्पबहुत्वचिन्तनमिति गाथार्थः ||९|| ||१०|| साम्प्रतं क्षेत्रादिमार्गणाद्वारोपन्यासार्थमाह खेत्ते काले गइवे-यतित्थलिंगे चरित्तबुद्धे य । णाणोगा हुक्कस्से, अंतरमणुसमयगणणमप्पबहू ॥ ११ ॥ ॥ मग्गणयदार० ॥ "खेत्ते काले गइवेद" ४ इत्यादि । एषां स्वरूपं पुनरुक्तपरिहारं च स्वस्थान एव वक्ष्याम इति ॥ ११ ॥ साम्प्रतमेभिर्मार्गणाद्वारैः सत्पदादिद्वारान्वेषणार्थं नयान् प्ररूपयति, यतः - " १. 'वेति' ङ पुस्तके । २. " हुक्कस्सो ” इति क ग घ पुस्तकेषु । ३. "अप्पबहुं" इति ख-ङ पुस्तकयोः । ४. “अस्या व्याख्यानं न सङ्गतम्, अतो विचार्यम् ॥” इति ख- पुस्तकेऽधिकः पाठो बहिर्लिखितः ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy