________________
श्रीसिद्धप्राभृतं सटीकम्
१०१ वचनात् । एवमनन्तरोदितनीत्या, किम् ? अत आह–'अणंत'त्ति, एवमेतेऽन्योऽन्यानुगमादात्मनो द्रव्यपर्यायास्तिकापेक्षयाऽनन्ताः । कथं ? 'दुह'त्ति सप्रतिपक्षयुगलितधर्मप्रकारेण द्विधा । तद्यथा-अस्ति नास्ति, नित्यः अनित्यः, वक्तव्यः अवक्तव्यः, इत्यादिना । द्रव्यक्षेत्रकालभावप्रतिबन्धेनेत्येवं न केवलं सिद्धभट्टारकः सर्वमपि सचेतनाचेतनं वस्तु मन्तव्यमित्येवं परमार्थसदिति । केचित्तु षण्णामप्येषां किमादीनामनुयोगद्वाराणामिदं पश्चार्धं यथासङ्ख्येन सम्बन्धयन्ति–किं सिद्धः ? इति प्रश्नस्योत्तरं जीवः, कस्यात्मपरीणामाः ? सिद्धस्येत्यादि, एवं तु न सुष्ठ प्रतीमः । यतः कस्य सन्देहः सिद्धो जीव: अजीव इति वा, एतावता च सन्दर्भेण किं फलमनुयोगद्वारोपन्यासस्येत्यलं प्रसङ्गेनेति गाथार्थः ॥८॥
साम्प्रतं यदुक्तं 'कई व सिं भेदा' इत्येषां गणनाप्रमाणोपलक्षणार्थं स्वत एव ग्रन्थकार आह
ते तु अणंतरसिद्धा, परंपरा चेव होंति नायव्वा । संतादीहि य अट्ठहि, एक्केक्कपरूवणा भणिया ॥९॥ संतपयपरूवणया, दव्वपमाणं च खेत्तफुसणा य । कालो य अंतरं भाव-अप्पबहु सण्णिगासे य ॥१०॥॥दार०॥
"ते उ अणंतरसिद्धा" इत्यादि प्रागv कण्ठ्यम् । पश्चार्द्धन यदुक्तं "अट्टहिं चाणुओगदारेहिं" इत्यस्य सम्बन्धं लगयति । 'संतादीहि य अट्ठहि एक्किक्कपरूवणा' एकैकं-सत्पदप्ररूणा एकं द्रव्यप्रमाणं चेति द्वितीयं क्षेत्रमिति तृतीयं स्पर्शनेति चतुर्थं कालश्च पञ्चमं अन्तरं षष्ठं भावः सप्तमं अल्पबहुत्वमष्टमम् । अष्टाभिश्चेत्यत्र चशब्देनान्वाचयशिष्टः सन्निकर्षो नवमम्, न तु परमार्थाद्, यतोऽल्पबहुत्वद्वारात्सन्निकर्षो न भिद्यत इत्यक्षरार्थः । भावार्थस्त्वयम्-षडनुयोगद्वारोपलक्षितं यत्सिद्धतत्त्वं तस्य परमार्थसतः
१. व्याख्यानोपलम्भेऽपि प्रक्षेपरूपेयमिति प्रतीये व्याख्यानुसारेण । २. 'प्ररूपणता' ख-ङपुस्कतयोः । ३. 'परमार्थसत्सत्पदप्ररूपणाभावो' क-ख-ग-घ पुस्तकेषु ।