________________
१००
श्रीसिद्धप्राभृतं सटीकम् कोऽस्याधार: ?, कुतोऽयं विकल्पः ? इति तदुच्यते कैश्चित्साङ्ख्यादिभिः सर्वगत इष्यते बौद्धैश्च कैश्चिद्यत्र मुक्तः कैश्चिन्नित्यगः, इति संशये आह–'कत्थ व' कुत्र वाऽसौ ? इत्युच्यते-लोकमूर्धनि सिद्धिक्षेत्रे नान्यत्र, सर्वगतस्यानिर्मोक्षादिप्रसङ्गाद्य(द)त्र मुक्तस्य सतो लघुत्वाद् ऊर्ध्वगौरवधर्मत्वाच्च ।
"यथाऽधस्तिर्यगर्ध्वं च, लोष्ठवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनः ॥१॥"
परतोऽपि न गतिः प्लवक इवोपग्रहाभावादिति । तथा कैश्चिदिष्यते 'दग्धेन्धनः पुनरुपैति भवं प्रमथ्यापि स्वतीर्थपरिभवादेः' अतः संदिहान आह'केवइकालं' कियन्तं कालमसौ सिद्धः ? इत्युच्यते भवोपादानाभावात्साद्यपर्यवसानमिति । किमसावेकः? उतानेक: सन् ?, कुत इयमारेका?, यतः केचिदाहुः
"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" इत्याह-कई व सिं भेय'त्ति कति वा 'सिं' तेषां परमगुरूणां 'भेदाः' विकल्पा इत्युच्यते-गणनाप्रमाणेन तावदनन्तरसिद्धपरम्परसिद्धादिना अनन्ताः, एकस्याप्यनन्तद्रव्यपर्यायविकल्पापेक्षया । यतः पश्चार्धमाह-'जियअत्तपरीणामे'त्यादि । जीवः शुद्धं द्रव्यं, तदाश्रिताः द्रव्यास्तिकाऽभिमताश्चेतनात्वद्रव्यत्वप्रमेयत्वप्रमाणत्वज्ञेयत्वज्ञानित्वदर्शनित्वदृश्यत्वसुखित्वादयोऽनन्ताः, पर्यायास्तिकाभिमतास्तु 'अत्तपरिणामा' आत्मनः परिणामाः आत्मपरिणामाः केवलज्ञानदर्शनवीर्यसुखादिपर्यायास्तेऽप्यनन्ताः । आत्मशब्दः परिणामानां विशेषणतयोपात्तः, तद्भाव: परिणाम इति दर्शनार्थम्, न तु यथा वैशेषिकाणां द्रव्यादत्यन्तमन्ये रूपादय इति, स्वपर्यायख्यापनार्थं च । कुतोऽवसीयते जीवो द्रव्यम् ? यदाश्रिता अनन्ता इति, उच्यते-यत: आत्मा "अत सातत्यगमने" अतति-सततं सन्दधाति तांस्तान् पर्यायानित्यात्मा । अनेनैतद्दर्शयतिअनुपरतप्रबन्धेन प्रतिक्षणवर्तिनस्ते चेतनात्वादय इति । आत्मपरिणामास्तु सादयः, "उप्पज्जंति वयंति य, भावा णियमेण पज्जवणयस्स ।" त्ति