SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् वर्णलोपलक्षणेन सिद्धोऽसावुच्यते, तस्य सिद्धस्येत्थं 'सिद्धत्वमुपजायते' सिद्धिक्षेत्रप्राप्तस्य सिद्धभावो भवतीति गाथार्थः ॥७॥ ___ इदानीं 'षड्भिरनुयोगद्वारैः सिद्धानां वर्णिता भेदाः' इति यदुक्तं तदभिधानायाह किं कस्स केण कत्थ व, केवइकालं कई व सिं भेया। जियअत्तपरीणामा, आया साई अणंत दुहा ॥८॥ "किं कस्स केण" इत्यादि ॥ किमर्थमेतदुपन्यासः ? इति चेदुच्यतेविप्रतिपत्तिसम्भवात् । तद्यथा साङ्ख्या:-निःसुखदुःखा मुक्तात्मानः निर्गुणाश्च प्रकृतेर्गुणवत्त्वात्, ततः "द्रव्यमात्रः सिद्धः" इति प्रतिपन्नाः, बौद्धास्तु "गुणमात्रः" इति शुद्धविज्ञानमात्रत्वात्, केचित्तु “क्रियामात्रः" इति अभावक्रियारूपत्वात् प्रदीपनिर्वाणकल्पो मोक्ष इति सन्देहे सति किं द्रव्यम् ? उत गुणः ? उत कर्म सिद्धः ? इति प्रश्नः । अस्य प्रतिवचनमुच्यते-न गुणो नापि कर्ममात्रम्, किन्तु ज्ञानदर्शनसुखाद्यनन्तगुणपर्यायकलापान्वितो जीवो द्रव्यं सिद्ध इति स्थिते कैश्चिदीश्वरकारणिकादिभिरीश्वरादिस्वामिक इष्यते तत्फलस्यापि च । यथाऽऽहुः "अज्ञो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्, श्वभ्रं वा स्वर्गमेव वा ॥१॥" अतः स्वस्वामित्वे सत्याह-कस्यासौ कस्य वा स्वामी ? इत्युच्यते-स्वत एव स्वस्य सुखादेः स्वतन्त्राचिन्त्यपरमैश्वर्ययोगादसौ स्वामीति । यद्येवंप्रकारोऽसौ कृतकत्वात् कृतकत्वविवक्षायां किंस्वभावोऽसौ , कुतोऽयं विकल्पः ? इति चेदुच्यते-"ईसरेण कडे लोगे" इत्यादेरभूतभावेन सिद्धत्वाभ्युपगमात् । अतः कर्तृविवक्षायां तावदाह-केन ? इति प्रश्नः, अस्योत्तरम्द्रव्यास्तिकनयापेक्षया न केनचित्सिद्धः कृतः, अशेषकर्ममलापगमेन स्वरूपलाभात् । कृतकविवक्षायां केन हेतुना ? इत्युच्यते सम्यग्दर्शनादिना सर्वसंवररूपशैलेशीक्रियापर्यन्तेन हेतुकलापेन निर्वर्त्यत्वात् कृतकः सिद्ध इति । अथ १. 'कलपा' क-ख-ग पुस्तकेषु ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy