SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् शमिकज्ञानादिपरिग्रहः, ' अत्थेणं 'ति अर्यमाणेन सम्यग्दर्शनज्ञानचारित्ररूपेण सर्वथा क्षपयित्वा साधितवान् 'यद्' यस्मात्क्षायिकं भावं ततोऽसौ क्षायिकभावसिद्धः । क्षायोपशमिकभावसिद्धस्तु “विज्जा मंते जोगे" इत्यादि चतुर्दशधा । तुशब्दो विशेषणार्थः, स एव भावसिद्ध 'इहाधिकृतः अतिशया(य्य) सर्वसिद्धान् यो वर्तत इति गाथार्थः ||५|| प्रकारान्तरेण निरुक्तिमाह ९८ सिद्धाणि सव्वकज्जा-णि जेण ण य से असाहियं किंचि । विज्जासुहइच्छाती, तम्हा सिद्धो त्ति से सद्दो ॥ ६ ॥ "सिद्धाणि सव्वकज्जाणि" गाहा ॥ सिद्धानि सर्वकार्याणि, न पुनः साधनाय व्याप्रियते, 'येन' कारणेन न च 'से' तस्य सिद्धस्यासाधितं किञ्चिदस्ति । किं तत् ? विद्यासुखेच्छादि, तस्मात् सिद्ध इत्ययं 'से' तस्य मुक्तात्मनः शब्द इति गाथार्थः ||६|| इदानीं निरुक्तपदमधिकृत्याह दीहकालरयं जं तु, कम्मं सेसियमहा । सियं धंत त्ति सिद्धस्स, सिद्धत्तमुवजाय ॥७॥ ॥ दारं ॥ "दीहकालरयं” गाहा ॥ दीर्घः - अनाद्यनुपरतप्रबन्धत्वाद्दीर्घः कालो यस्य रजसस्तद्दीर्घकालम्, दीर्घकालं रजो-रञ्जकस्वभावो यस्य कर्मणः, रयो - वेगो वा यस्य, "लाउयएरंडफले अग्गीधूमे य उसुधणुविमुक्के "त्ति वचनात् । तत्र गतः सिध्यतीति, कर्मकृतो वेग इति भावार्थः । तदेवंविधं यत्कर्म क्षीणशेषं किञ्चिन्मात्रमित्येतद् विशेषयति तुशब्दः, तत्कर्म 'शेषितं' स्थितिघातरसघातादिभिः स्वल्पीकृतं सद्यदष्टधा 'सितं' पूर्वं बद्धमासीत्, 'षिञ् बन्धने' इत्यस्य क्तान्तस्य सितमिति रूपम्, 'ध्मा' इत्यस्यापि निष्ठान्तस्य ध्मातमिति, 'ध्मा शब्दाग्निसंयोगयोः' इति धात्वर्थात् सितं बद्धं कर्म ध्यातं व्युच्छिन्नक्रियध्यानानलसंयोगमापादितं यतस्तेन भगवता अतो निरुक्तपदविधिना १. ‘इह किंभूतः अतिशयान् ' क ख ग पुस्तकेषु । २. 'दी' ङपुस्तके |
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy