________________
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] ९५ "जराया जरस् वा " [२, १, ३ ] इति सूत्रेण स्वरादिस्वादिप्रत्ययेषुः परेषु 'जरस्' इत्यादेशो विकल्पेन भवतीति बोध्यम् ।
२ केचित्तु तृतीयैकवचने 'निर्जरसिन' इत्येवं रूपमप्यभिलषन्ति ।
३ केषांचिन्मते तु तृतीयाबहुवचने 'निर्जरैः । इत्येकमेव रूपं भवति, यतस्ते तृतीयाबहुवचने स्वरपरत्वाभावेन जरसादेशं नेच्छन्ति । - ४ केचन वैयाकरणाः पञ्चम्येकवचने 'निर्जरसात्' इति रूपमपीच्छन्ति॥
स्त्रियां तु- . जराया निर्गता, निर्गता जरा यस्या वा सा, 'निर्जरा' । जरामतिक्रान्ता, अतिशयिता जरा यस्यां यस्या वा सा 'अतिजरा' । न विद्यते जरा यस्यां यस्या वा सा 'अजरा' । एतेषु शब्देषु विभक्तः 'आ' प्रत्ययेन व्यवधानाम जरसादेशस्तेनैतेषां शब्दानां रूपाणि वक्ष्यमाण 'दया' (१६५) शब्दवद्वोध्यानि, नवरं षष्ठी बहुवचने ' निर्जराणाम् ' ' अतिजराणाम् ' ' अजराणाम् । इति णत्वविशेषः ॥ ___ केषाञ्चिन्मते तु विप्रतिषेधसूत्रे (“ स्पर्द्ध " ७, ४, ११९ इति सूत्रे) परशब्दस्य इष्टार्थवाचित्वेन इनातोः कृतयोः सन्निपातपरिभाषाया अनित्यत्वमा. श्रित्य जरसि कृते 'निर्जरसिन, निर्जरसाद्' इति रूपे, न तु 'निर्जरसा, निर्जरसः' इति ॥
'निर्जरै.' रिति भवितव्यं सन्निपातपरिभाषया, भाष्यवचनात् 'निर्जरैः' इत्येकमेव रूपं भवतीति ॥ . स्वमते " भिस् ऐस् ” [१.४ २] इत्यत्र ऐस्करणसामर्थ्यात् , ऐस्विधावेव सन्निपातपरिभाषाया अनित्यत्वाभ्युपगमो नान्यत्र ॥ -- 'निर्जरसा' इत्यत्र परत्वात् नित्यत्वाच्च प्रागेव जरसादेशे कृतेऽदन्तत्वाभावः, अर्थात् इनादीन् बाधित्वा परत्वाजरसादेशो भवतीति भावः । ।