________________
७८ [श्रीस्याद्यन्तरत्नाफरे-आकारान्तं तद्धितान्तप्रकरणम् ]
इत्यणि “ व्यञ्जनात्तद्धितस्य " [२, ४, ८८ ] इति यकारलोपे 'आगस्ती' इति प्रकृतिः, एतद्रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्वोध्यानि ॥ ____x " अगपुलाभ्यां स्तम्भेर्डित् " [ ३६३ ] इति उणादिसूत्रेण 'अग' इत्यस्मात् परस्मात् स्तम्भः सौत्राडिति ये प्रत्यये सति “डित्यन्त्यस्वरादेः " [२, १, ११४] इत्यनेनान्त्यस्वरादिलोपे जाते 'अगस्त्य' शब्दनिष्पत्तिर्विज्ञेया॥
(१२२) अकारान्तः पुंल्लिङ्गः 'भार्गव' शब्दः। __ भृगोर्गोत्रापत्यं पुमान् ‘भार्गवः' ।
एकव. द्विच. बहुव० प्र० भागवः
भार्गवौ
भृगकः भार्गवम्
भृगून भार्गवेण भार्गवाभ्याम् भृगुभिः भार्गवाय भार्गवा-त्, दु.
भार्गवस्य भार्गवयोः भृगूणाम् स० भार्गवे
भृगुषु सं० हे भार्गव हे भार्गवौ हे भृगवः ____ अत्र ऋषिवाचकाद् भृगुशब्दाद् "ऋषिवृष्ण्यन्धककुरुभ्यः" [६, १, ६१] इत्यणि " अस्वयम्भुवोऽव् ” [ ७, ४, ७० ] इत्युकारस्य 'अ' आदेशे सति " वृद्धिः स्वरेष्वादे० " [७, ४, १] इत्याद्यस्य ऋकारस्य वृद्धौ च सत्यामेकत्वे द्वित्वे च भार्गव' इति प्रकृतिः; बहुत्वे तु " भृग्वङ्गिर० " [ ६, १, १२८ ] इति बहुत्वविशिष्टगोत्रापत्येऽर्थे वर्तमानस्याणो लुपि 'भुगु' इति मूलप्रकृतिः ।
स्त्रियां तुभृगोरपत्यं स्त्री 'भार्गवी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवरोध्यानि । अत्रापि “ अणजेयेकण " [२, ४, २०] इति ङयन्तत्वम्॥