________________
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ७७
HिA
स्त्रियां तुकुण्डिन्या वृद्धमपत्यं स्त्री 'कौण्डिनी' 'कौण्डिन्यायनी' इति । अत्र , गर्गादित्वात् यजन्तत्वेन " यजो डायन् च वा " [ २, ४, ६७ ] इल्यनेन ङीप्रत्ययस्तसन्नियोगे डायन् चान्तो विकल्पेन भवति । यदा डायन्युक्तडीवति तदा 'कौण्डिन्यायनी' इति प्रकृतिः, यदा तु केवला ङीस्तदा “ अस्य डयां लुक् ” [२, ४, ८६ ] इति ङीप्रत्यये परे पूर्वस्य यजोऽकारस्य लुकि " व्यञ्जनात्तद्धितस्य " [ २, ४, ८८ ] इति यजो यकारस्य लुग् भवति, तेन 'कौण्डिनी' इति प्रकृतिः । उपर्युक्तप्रकृतिद्वयस्य रूपाणि वक्ष्यमाग 'नदी' (२२५) शब्दवद्धोध्यानि ॥ (१२१) अकारान्तः पुंल्लिङ्गः 'आगस्त्य' शब्दः।
अगस्त्यस्यापत्यं पुमान् आगस्त्यः ॥ वि० एकव०
बहुवल प्र० आगस्त्यः आगस्त्यौ अगस्तयः द्वि० आगस्त्यम्
अगस्तीन तृ० आगस्त्येन आगस्त्याभ्याम् अगस्तिभिः शेषाणि रूपाणि 'काप्य' ( ९३ ) शब्दवद्वोध्यानि ।
अत्र ऋषिवाचकाद् 'अगस्त्य' शब्दात् “ ऋषिवृष्ण्यन्धककुरुभ्यः " [६, १, ६१] इत्यणि, एकत्वे द्वित्वे च 'आगस्त्य' इति प्रकृतिः, बहुवे तु " कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च " [६, १, १२७] इत्यनेन बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्याऽणो लुब् भवति, तद्योगे चाऽगस्त्यशब्दस्य ' अगस्ति' इत्यादेशः स्यात्तेन 'अगस्ति' इति ( बहुत्वविशिष्टेऽर्थे ) प्रकृतिर्भवतीति भावनीयम् ।
स्त्रियां तुभगस्त्यस्यापत्यं स्त्री 'आगस्ती' । अत्र "ऋषिवृष्ण्य." [६, १, १२७]