________________
७६
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम्]
स०
कौण्डिन्यम् कौण्डिन्यौ कुण्डिनान् कौण्डिन्येन कौण्डिन्याभ्याम् कुण्डिनैः कौण्डिन्याय
कुग्डिनेभ्यः कौण्डिन्यात्न्दु कौण्डिन्यस्य कौण्डिन्ययोः कुण्डिनानाम् कौण्डिन्ये
कुण्डिनेषु सं० हे कौण्डिन्य हे कौण्डिन्यौ हे कुण्डिनाः .
कुण्डिनीशब्दस्य गर्गादिपाठात् “ गर्गादेर्यञ् ” [ ६, १, ४२ ] इति यजि “ अवर्णवर्णस्य " [७, ४, ६८ ] इतीकारलुक्याद्यस्वरवृद्धावेकत्वे द्वित्वे च 'कौण्डिन्य' इति प्रकृतिः । बहुत्वे तु " कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च" [ ६, १, १२७ ] इति सूत्रेण कौण्डिन्य आगस्त्य इत्येतयोर्बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानयोर्यजोऽणश्चाऽस्त्रियां लुब् भवति, तयोश्च कुण्डिनी अगस्त्य शब्दयोः 'कुण्डिन' 'अगस्ति' इत्येतावादेशौ भवतः; तेन बहुत्वे 'कुण्डिन' इति प्रकृति या । अत एव निर्देशात् पुंवद्भावाभावः । प्रत्ययलुपं कृत्वाऽऽदेशकरणमगस्तीनामीमे 'आगस्तीया' इत्वेमर्थम् । प्रत्ययान्तादेशे हि कृते अगस्तिशब्दस्यादेराकारस्याभावात् " वृद्धिर्यस्य स्वरेष्वादिः " [ ६, १, ८ ] इति दुसंज्ञा न स्यात् , तदभावे च तन्निमित्तो " दोरीय: [ ६, ६, ३१ ] इतीयः प्रत्ययोऽपि न स्यात् । यदा तु प्रत्ययस्य लुब् विधीयते तदा स्वरादावीयप्रत्यये भाविनि " न प्रागजितीये स्वरे " [ ६, १, १३५ ] इति प्रतिषे. धात् प्रत्ययस्य लुब् न भवति । तथा च सति दुसंज्ञत्वादीयः सिद्धो भवति ।
ईयप्रत्ययापेक्षया कुण्डिन्यामविशेषः । प्रत्ययान्तादेशे हि कुण्डिनशब्दाददुसंज्ञकात् " तस्येदम् " [ ६, ३, १५९ ] इत्यणा भवितव्यम् । प्रत्ययस्य तु लुपि " न प्राजितीये स्वरे ” [६, १, १३५ ] इति लुप्रतिषेधे, सत्यामपि दुसंज्ञायामीयप्रत्ययापवादः शकलादित्वादजेव स्यात् , अतो न विशेषः ॥