________________
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ]
६५ यानां राजा, साल्वेयस्य राज्ञोऽपत्यं वा साल्वेय इत्यर्थो विवक्षितस्तदा " गान्धारिसाल्वेयाभ्याम् ” [ ६. १. ११५ ] इति द्विसंज्ञकोऽञ् भवतीति 'साल्वेय' शब्दस्य द्विधा निष्पत्ति: । रजो बहुषु लुब् भवति, तेनास्य त्रिष्वपि वचनेषु समाना प्रकृतिः ।
ननु 'गान्धार' इत्यत्र लुबभावे फलमस्ति; यतो लुप्ते गान्धारिरिति स्यात्, स्थिते तु गान्धारः, 'साल्वेय' इत्यत्र तु किं फलम् ? उच्यते - अत्राऽलुपि सङ्घादिविवक्षायामण्, लुपि तु " गोत्राददण्ड० " [६. ३. १६९] इत्यकञ् स्यात् । स्त्रियां तु-
साल्वेयस्य राज्ञोऽपत्यं स्त्री 'साल्वेयी', यद्वा साल्वाया अपत्यं स्त्री " साल्वेयी', अभयत्रापि " अणजेयेकण्० " [२. ४. २०] इति ङयन्तत्वम् ; रूपाणि तु वक्ष्यमाण 'नदी' (२२५) शब्दवदवसेयानि ॥
(१०६) अकारान्तः पुंल्लिङ्गः 'पौरव' शब्दः ।
पुरोरपत्यं पुमान् पौरवः । अस्ति राजा पुरुर्नाम न तु राष्ट्रम् । वि०
प्र०
द्वि
तृ०
एकव०
पौरवः
पौरवम्
द्वि०
पौरवौ
"
पौरवाभ्याम्
बहुव०
पुरवः
पुरून्
पुरुभिः
पौरवेण
शेषाणि रूपाणि 'बाभ्रव्य' (९१) शब्दवद्विज्ञेयानि ।
"
अत्र " पुरुमगधकलिङ्गशूरमसद्विस्वरादण् [ ६. १. ११६ ] इति द्विसंज्ञकोऽण् भवति, तदनु " अस्वयम्भुवोऽव् ” [ ७. ४. ७० ] इत्युकारस्याऽवि " वृद्धिः स्वरेष्वादे० " [ ७. ४. १] इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'पौरव' इति प्रकृतिः, बहुत्वे तु " बहुस्वस्त्रियाम् " [ ६. १. १२४ ] इति द्रेणो लुपि 'पुरु' इति मूलप्रकृतिः ॥