SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२ [श्रोस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] उपर्युक्तेन सूत्रेण दिसंज्ञकेऽजि “ अवर्णेवर्णस्य " [ ७. ४. ६८ ] इत्यकारलुकि " वृद्धिः स्वरेष्वादेणिति तद्धिते " [ ७. ४. १ ] इति प्रकतेराद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'वैदेह' इति प्रकृतिः, बहुत्वे तु " बहुध्वस्त्रियाम् ” [ ६. १. ११४ ] इति द्रिसंज्ञस्याऽनो लुपि 'विदेह' इति मूल प्रकृतिरवतिष्ठते स्त्रियां तु-- विदेहस्य राज्ञोऽपत्यं स्त्री 'वैदेही' । एतद्रूपाणि वक्ष्यमाण 'नदी' ( २२५ ) शब्दवद्विज्ञेयानि । अत्र " अणनेयेकण्० " [२. “४. २० ] इति डीभवति ॥ ... (१०२) अकारान्तः पुंल्लिङ्गः 'ऐक्ष्वाक' शब्दः । ( इक्ष्वाकूणां राष्ट्रस्य राजा, इक्ष्वाको राज्ञोऽपत्यं वा ऐक्ष्वाकः ) वि० एकव० द्विव० बहुव० प्र० पेक्ष्वाकः ऐश्वाको इक्ष्वाकवः द्वि० ऐक्ष्वाकम् इक्ष्वाकून् नृ० पेक्ष्वाकेण ऐक्ष्वाकाभ्याम् इक्ष्वाकुभिः शेषाणि रूपाणि 'बाभ्रव्य' (९१) शब्दवज्ज्ञेयानि । अत्र " राष्ट्रक्षत्रियात्० " [६. १. ११४] इति द्रिसंज्ञकेऽनि “ सारवैक्ष्वाक-मैत्रेय-भ्रौणहत्य-धैवत्य-हिरण्यमयम् " [ ७. ४. ३० ] इति निपातनादुकारलोपे “ वृद्धिः स्वरेष्वादे० " [ ७. ४. १ ] इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च ' ऐक्ष्वाक' इति प्रकृतिः, बहुत्वे तु " बहुप्वस्त्रियाम् " [ ६. १. १२४ ] इति ट्रेनो लुपि 'इक्ष्वाकु' इति मूलप्रकृतिः ॥ स्त्रियांतुइक्ष्वाको राज्ञोऽपत्यं स्त्री 'ऐक्ष्वाकी' इत्यस्व रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवदवसेयानि ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy