________________
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ६१
द्वि० आवव्यम्
आवव्यौ
अवटान् तृ० आवव्येन आवव्याभ्याम् अवटैः
शेषागि रूपाणि 'जिन' (७४) शब्दवद्बोध्यानि । नवरमस्य गर्गादित्वाद् यजि अन्त्याकारलुक्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'आवठ्य' इति प्रकृतिः, बहुत्वे च यजो लुपि 'अवट' इति मूलप्रकृतिः ।
स्त्रियां तुअवटस्थापत्यं वृद्धं स्त्री 'आवव्यायनी' 'आवट्या' चेति । अत्र "षाव. टाद्वा " [२. ४. ६९] इति ङीर्विकल्पेन जायते, ङीसन्नियोगे डायनन्तश्च । यदा ङी यश्च तदा 'आवट्यायनी' प्रकृतिः । उयभावपक्षे तु " आत् " [ २. ४. १८ ] इत्यापि 'आवट्या' इति प्रकृतिबोध्या । निरुक्तप्रकृतिद्विकस्य सर्वाण्यपि रूपाणि यथासङ्ख्यं वक्ष्यमाण 'नदी' (२२५) शब्दवत् , 'दया' (१६५) शब्दवच्च ज्ञेयानि ।
(१०१) अकारान्तः पुंल्लिङ्गः 'वैदेह' शब्दः ।
विदेहानां राष्ट्रस्य राजा वैदेहः, अथवा विदेहस्य राज्ञोऽपत्यं पुमान् वैदेहः ॥ एकव० द्विव०
बहुव० प्र. वैदेहः
वैदेही
विदेहाः द्वि० वैदेहम्
विदेहान् वैदेहेन वैदेहाभ्याम् विदेहैः शेषाणि सर्वाणि रूपाणि 'जिन' (७४) शब्दवबोध्यानि ।
अत्र " राष्ट्रक्षत्रियात्सरूपाद् राजाऽपत्ये दिरञ् " [ ६. १. ११४ ] इति सूत्रेण, क्षत्रियवाचिसरूपाद्राष्ट्रवाचिनो राष्ट्रवाचिसरूपाच्च क्षत्रियवाचिनो यथासङ्ख्यं राजनि क्षत्रियेऽपत्ये चाऽम् भवति, स च द्रिसंज्ञः । तथा च
त.