________________
.[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ५९
कुञ्जशब्दात् “ कुादे यन्य: [ ६. १. ४७ ] " इति जायन्यप्र. त्ययो भवति, एकत्वे द्वित्वे च ' कौञ्जायन्य' इति प्रकृतिः, बहुवे तु "स्त्रीबहुवायनञ् [ ६. १. ४८ ]" इति 'आयन' प्रत्ययो भवति, तेन 'कौञ्जायन' इति प्रकृतिः । __कुञ्जस्यापत्यं वृद्धं कौञ्जायन्यः, कौञ्जायन्यस्याप्यपत्यःनि युवानः 'कौञ्जायनाः' इति रूपं भवति । यत: कौझायन्यशब्दस्यादन्तत्वात् “ अत इञ्" [ ६. १. ३१ ] इत्यनेन 'इञ्' प्रत्ययो भवति, तदनु "जिदार्षादणिनो:" [ ६. १. १४० ] इति इनो लुपि एकत्वद्वित्वरूपनिमित्ताभावात् 'मायन्य' प्रत्ययो न भवति, किन्तु बहुत्वसद्भावात् “ स्त्रीबहुष्वायनज् ” [६. १. ४८] इत्यनेनैव 'आयन' प्रत्ययो भवति ॥
यदातु कुञ्जस्यापत्यानि वृद्धानि कौञ्जायनास्तेषामपत्यं युवा 'कौञ्जायन्यः' इति क्रियेत तदा कौञ्जायनशब्दस्याप्यदन्तत्वादिनि तल्लुपि च 'आयनन्' निमित्तकबहुत्त्वाभावात् तन्न भवति, नवरमत्रैकवचनस्य विवक्षितत्वात् तन्निमितको 'आयन्य' प्रत्ययो भवति, तेन 'कौञ्जायन्य' इत्येवं रूपं भवतीति विशेषः।
स्त्रियां तु-- कुञ्जस्यापत्यं स्त्री 'कौञ्जायनी' इत्यस्य सर्वाणि रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दबदवसेयानि ।
अत्रायं विशेषः-स्त्रीबहुष्वायनन् ” [ ६. १. ४८ ] इति सूत्रं पुंसि बहुत्वे एव प्रवर्तते, स्त्रीलिङ्गे तु 'स्त्रियां वा बहुत्वेऽपि' इति वृत्तिव्याख्यानात् विष्वपि वचनेषु प्रवर्तत इति ॥
(९९) अकारान्तः पुंल्लिङ्गः 'पौतिमाष्य' शब्दः । (पूतयो माषा अस्य पूतिमाषः, तस्यापत्यं वृद्धं पुमान् पौतिमाष्यः) वि० एकव० द्विव०
बहुव० प्र० पौतिमाष्य; पौतिमाष्यौ पूतिमाषा: