________________
५२
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ]
ननु यः शिवादौ अण् सोऽपत्यमाने विहितः, गर्गादौ तु यञ् वृद्धापत्ये, तस्माद्विशेषविधानादेवाऽऽङ्गिरसेऽन्यत्रापि च यसिद्धौ किमर्थमिदम् “ वत. ण्डात् " [ ६. १. ४५ ] इति सूत्रं सूत्रकृता सूत्रितमिति चेत् ? मैवं वादी: यतो वतण्डशब्दस्य शिवादिपाठोऽपि वृद्ध एवाऽविधानार्थः ।
स्त्रियांतु__वतण्डस्थापत्यं वृद्धं स्त्री आङ्गिरसी 'वतण्डी' इत्यस्य रूपाणि वक्ष्यमाण'नदी' (२२५) शब्दवबोध्यानि ।
अत्र " स्त्रियां लुप् " [ ६. १. ४६ ] इति यजो लुपि “ जातेरयान्त० ” [ २. ४. ५४ ] इति जातिलक्षणो हीर्भवति, तेन 'वतण्डी' इति प्रकृतिर्जायते ।
ननु " स्त्रियां लुप्" [ ६. १. ४६ ] इत्यनेन विहितयलुपःस्थानिवदावे कृते यान्तत्वात् जातिलक्षणो डीः कथं भवतीति चेत् ? सत्यम् , जातिलक्षणडीविधायके " जातेरयान्त०" [२. ४. ५४ ] इत्यस्मिन् सूत्रे अन्तग्रहणं साक्षात्प्रतिपत्त्यर्थम् ; तेन वतण्डस्थापत्यं पौत्रादि ( वृद्धं ) स्त्रीति यन् , तस्य लोपे स्थानिवद्भावेऽपि 'वतण्डी ' इत्यत्र यान्तलक्षणः प्रतिषेधो न भवतीति । .
अनाङ्गिरसे तु शिवादिपाठादणि “ अणजे० " [२. ४. २० ] इति क्याम् 'वातण्डी' इति । गर्गादिस्थलोहितादिपाठाच्च यनि “लोहितादिशकलान्तात् " [२. ४. ६८] इति ङी यश्च भवति, तेन 'वातण्डयायनी' इति । 'वातण्डी' 'वातण्डयायनी' इत्येतयो रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्विज्ञेयानि ॥
__ (९१) अकारान्तः पुंल्लिङ्गः 'बाभ्रव्य' शब्दः । (बभ्रोः कौशिकविशेषोऽपत्यं वृद्धं पुमान् बानव्यः कौशिकः) वि० एकव० द्विव०
बहुव० बाभ्रव्यौ बभ्रवः
बाभ्रव्यः