SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ . [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तप्रकरणम् ] ४१ "ननु, ददाद्यादेशवत् पूर्वसूत्रेऽपि 'मासु' इत्यादिसमस्तादेशः कर्त्तुमुचितः । तथा च सति प्रकरणभेदोऽपि न स्यात् । अत एव पूर्वैः " पद्, दत्, नस्, मास्, हृद्, निश्, असन्, यूषन्, दोषन्, यकन्, शकन् उदन्, आसन्" इति आदेशमात्रमेव कृतम् ; प्रकृतिस्तु तत्रानुमितेति । " सत्यम्, तत्रोपलक्षणभूतेन लुक्शब्देन लाघवार्थं लुगन्त आदेश उच्यते । अत एव वृत्तावुक्तम्- लुगन्तादेश इति । लुगन्तश्चासावादेशश्चेति तत्र प्रत्येतव्यम् । अन्तलोपे सति यादृशमेषां रूपं भवति तादृशा 'मास्, निशू आसन्' इत्येवं रूपा आदेशास्तेन विधीयन्ते, न तु लुगिति ॥" " इत्येतस्य बृहन्न्यासपाठस्य पर्यालोचनायामिदमवबुध्यते - “मासनिशासनस्य शसादौ लुग्बा " [२. १. १०० ] इत्यत्र प्रकरणभेदपरिहारार्थमवर्णलोपस्योपलक्षणत्वेन 'मास्, निश्, आसन्' इति आदेशा एव विधीयन्ते । अतः x‘असिद्धं बहिरङ्गमन्तरङ्गे' x इत्यस्य प्रवृत्यभावादनवकाशत्वेन "धुटस्तृतीयः " [२. १. ७६ ] इति बाधित्वा " सोरु: " [२. १. ७२] इत्यनेन रुत्वे " अवर्णभो भगोऽघोर्लुगसन्धिः " [ १. ३. २२. ] इति रुलोपे "माभ्याम्' इति रूपसिद्धिः ॥ " अथ “ मासनिशासनस्य शसादौ लुग् वा [ २. १. १०० ] इति सूत्रस्थानां मासादिशब्दानां ये मासादय आदेशा:, “ दन्तपादनासिकाहृदयासयूषोदकदोर्यकृच्छकृतो दत्पन्नसहृदसन्यूषन्नुदन्दोषन्य कम्छकन् वा [२. १. १०१ ] इति सूत्रस्थानां दन्तादिशब्दानां च ये ददादय आदेशास्ते छान्दसे प्रयोगे सर्वेऽपि भवितुमर्हन्ति । लौकिके तु प्रयोगे प्रविरलप्रयोगविषयत्वमस्तीति सर्वाणि रूपाणि न भवन्ति, तथापि रूपस्वरूपोपदर्शनाय सर्वाण्यपि रूपाण्यत्र - प्रदर्शितानि ॥ कलिकालसर्वज्ञानां श्रीमतां हेमचन्द्रसूरीश्वराणां स्वोपज्ञ - शब्दमहार्णवन्यासस्थानि प्रविरलम योगविषयत्व प्रतिपादनपराणीमानि वचनानि -
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy