SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ] लघुन्यासकारस्यायमभिप्राय:__ मासशब्दस्य भ्यामि परे 'मासनिशाऽऽसनस्य शसादौ लुग्वा" [२.१. १००] इति सूत्रेण अकारलोपे 'मास्+भ्याम् ' इति स्थिते “ सो रुः" [२. १. ७२] इत्यनेन सकारस्थाने रुत्वं प्राप्नोति, अपि तु न भवति, परप्रत्ययापेक्षत्वेनाकारलोपस्य बहिरङ्गत्वात् । “ सो रु: " [२. १. ७२] इति विधीयमानरुत्वस्य परानपेक्षत्वेन अन्तरङ्गत्वात् असिद्धं बहिरङ्गमन्तरङ्गेx ( अन्तरङ्गे कार्य कर्तव्ये बहिरङ्गं कार्यमसिद्धं स्यात् ) इति न्यायादन्तरङ्गे रुत्वे कर्त्तव्ये बहिरङ्गस्याकारलोपस्यासिद्धत्वेन पदान्तत्वाभावात् “सो रुः" [२. १. ७२] इति सूत्रं न प्रवर्तते । किन्तु "नाम सिदव्यञ्जने" [ १. १. २१. ] इति पदसंज्ञायां सत्यां “ धुटस्तृतीयः " [२. १. ७६] इति दत्वे 'माझ्याम्' इति रूपसिद्धिः । ननु, "धुटस्तृतीयः" [२. १. ७६] इति दत्वस्यापि परानपेक्षत्वेनान्तरङ्गत्वात्तस्मिन्कर्त्तव्ये बहिरङ्गाऽकारलोपस्याऽसिद्धत्त्वेन पदान्तत्वाभावोऽत्रापि तदवस्थ एव । पदान्तत्वाभावे च कथं " धुटस्तृतीयः " [२. १. ७६ ] इति सूत्रप्रवृत्तिरिति चेत् सत्यम्, न्यायस्यास्याऽनित्यत्वात् “सो रुः" [२. १. ७२] इत्यस्य प्रवृत्तौx असिद्धं बहिरङ्गमन्तरङ्गे' इति न्याय: प्रवर्त्तते, “धुटस्तृतीयः" [ २. १. ७६ ] इत्यस्य प्रवृत्तौ तु न प्रवर्तते । तेन 'माझ्याम्' इति रूपं भवतीति भाष्यकृन्मतम् । यदा तु "धुटस्तृतीयः" [२. १, ७६] इत्यस्यापि प्रवृत्तौx'असिद्धं बहिरङ्गमन्तरङ्गे' इति न्यायः प्रवर्त्तते तदा 'मास्भ्याम्' इति रूपं भवतीति दुर्गमतम् । स्वमते रूपद्वयसाधनिका तु पर्यायेण निरुक्तमतद्वयादरणेनावसेया ॥ ___ " दन्तपादनासिकाहृदयासगूयूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोषन्यकञ्छकन् वा " [ २. १. १०१ ] इति सूत्रसम्बन्धीनि बृहन्न्यासवचनानीमानि
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy