________________
[श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणस्थमकारान्तमेकाक्षरप्रकरणम्] ३५
(७१) 'ह' शब्दः । पुं०-शिवे, जले, शून्ये, मङ्गले, आकाशे, रक्ते, धारणे, स्वर्गे, पापहरणे, ... चन्द्रे, सकोपवारणे, शुष्के च । कश्चित्तु हस्तिन्यपि पठति ॥ ..
(७२) 'क्ष' शब्दः । पुं०-क्षेत्रे, वक्षःस्थले, शब्दशासने चेतिः कस्यचिन्मतम् ॥
(७३) 'ज्ञ' शब्दः । पुं०-ब्रह्मणि, पण्डिते, सोमपुत्रे बुधे च ॥
. एषां कादीनां ज्ञपर्यन्तानां पञ्चत्रिंशतः शन्दानां सर्वाणि रूपागि यथासम्भवं पुल्लिङ्गे वक्ष्यमाण 'जिन' शब्दवत् , स्त्रीलिङ्गे वक्ष्यमाण 'दया' शब्दवत् , नपुंसकलिङ्गे च वक्ष्यमाण 'दर्शन' शब्दवदवसेयानि । नवरं र-ष-क्षशब्दानां तृतीयैकवचने षष्टीबहुवचने च यथासङ्ख्यं 'रेण, राणाम् । षेण, षाणाम् ; क्षेण, क्षाणाम्' इति णत्वकृतविशेषः स्वधिया परिभावनीयः ॥
इति श्रीमत्तपोगणाम्बराम्बरमणि-शासनसम्राट्-स्वपरसमयपारावारपारीणाऽऽचार्यचक्रचूडामणि-कलिकालकल्पतरुकल्प-तीर्थर:कदक्ष-सुगृहीतनामधेयजगद्गुरु-परमपूज्य पूज्यपाद-परमोपकारि-भट्टारकाचार्यवर्य-श्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार-व्याकरणवाचस्पति--कविरत्न-शास्त्रविशारद-विबुधशिरोमणि-परमपूज्य-परमोपकारि-श्रीमद्गुरुराअभट्टारकगणाचार्य-श्रीमद्विजयलावण्यसूरीश्वर-चरणारविन्दमिलिन्दायमान-विनेयमुनि-दक्षविजय-विचिते श्रीस्याद्यन्तरत्नाकरे-एकाक्षरप्रकरणम् ॥